SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ 33 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् सकलकल्याणलाभाय देवी या अचिरा तदाख्या जिनजननी तद्युत जिनपतिं नत्वा गुणगानं कुर्वन्त्यः प्रतीच्यां दिशि अन्तिकगताः जिनसमीपस्था एव तस्थुः // 95 / / अष्टविति अष्टोदगुरुचकात् समेयुरथ दिक्कन्यस्तथाऽलम्बुशामुख्याश्चामरराजिपाणिकमलाः साम्राज्यजल्पोन्मुखाः / एतास्तीर्थकरं विनम्य मनसा तीर्थेशमात्रा समं कौवेर्या ककुभि. स्थिता जिनगुणान् गायन्त्य एव स्थिरम् // 96 // अथानन्तरम् उदग्रुचकादुत्तररुचकात् तथा पूर्ववदेव अलम्बुशामुख्याः साम्राज्यस्य जल्पे कथने उन्मुखाः जिनसाम्राज्यं वर्णयन्त्यः चामरराजीनि पाणिकमलानि यासां तास्तादृशः चामरहहस्ताः अष्टौ दिक्कन्यः समेयुरागतवत्यः / एताः दिक्कुमार्यः तीर्थेशस्य मात्रा अचिरया समं सह तीर्थकरं मनसा विनम्य जिनगुगान् गायन्त्य एव कौबेर्यामुत्तरस्यां ककुभि दिशि स्थिरं स्थिताः // 96 / / दिक्कन्या इति दिक्कन्या अपराविदिग्ररुचकतोऽप्येयुश्चतस्रो जग टीपं तीर्थकरं वदन्त्य इव ता दीपं दधानाः करे / भक्त्या तीर्थकरं प्रणम्य कलितं मात्रा सुतेरामुखा देव्यो गीतकलाविनिर्जितसुधाः स्थैर्य विदिक्षु श्रिताः // 97 // विदिगूचकतोऽपि सुतेरामुखाः देव्यः गीतकलाभिः स्वरमाधुर्येण विनिर्जिता सुधा याभिः तास्तादृशः तीर्थकरं जगद्दीपं भवान् जगत्प्रकाशक इत्येवं वदन्त्यः स्तुवन्त्य इव करे दीपं दधानाः सत्यः अपराश्चतस्रः दिक्कन्या एयुराजग्मुः, तथा भक्त्या मात्रा कलितं सहितं तीर्थकरं प्रणम्य विदिक्षु स्थैर्य स्थिरतां श्रिताः तस्थुरित्यर्थः // 97 // रूपाद्या इति रूपाचा अपि मध्यमैकरुचकादेताश्चतस्रोऽथ ता, वन्दित्वा चतुरङ्गलस्थितिपरं छित्त्वैव नालं विभोः। भूमौ तद्विनिखाय रत्ननिचयैरापूर्य तत्रोश्चकैदेर्वापीठमरोपयन् रविहयस्पर्धाविवृद्धादरम् // 98 // अथानन्तरम् मध्यमान्मध्यदिक्स्थात् एकस्मात्प्रधानाद्रुचकाद् चतस्रः रूपाद्या दिक्कन्या अपि एता आगताः ता रूपाद्याः वन्दित्वा जिनं प्रणम्य चतुरङ्गुलस्थितिपरं चतुरङ्गुलमात्रं मुक्त्वैव विभोः जिनस्य नालं बहिर्नाभितन्तुं छित्त्वा भूमौ तन्नालं विनिखाय खाते निधाय रत्नैरापूर्य्य तत्र शा. 5
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy