________________ 32 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / दिक्कन्याः विकृताः जलधरा मेघाः याभिस्तास्तादृश्यः सत्यः / वैक्रियजलधरमुत्पाद्य गन्धवार्भिः सुरभिसलिलैः छटाः सिञ्चनानि अधिकतरं निःशेषेण शुचीकरणं यथास्यात्तथा ददुः कुर्वन्ति स्म // 12 // युग्मम् वृष्टेति-- . दृष्ट्वा पुष्पाणि यावत सुकृतभृतहृदस्ताः स्थितास्तावदेवाऽष्टाऽन्याः पौरस्त्यपूर्वादिह लघुरुचकाद् दिक्कुमार्यः समीयुः / / हृष्टा नन्दोत्तराद्या जिनजिनजननीपादयुग्मं प्रणम्य, सूनोस्ते चात्र रूपं परमिति सुमता दर्षणान् दर्शयन्त्यः // 13 // इमा गायन्त्योऽस्थुर्जिनपतिगुणान्माच्यककुभि, स्वयं दिक्कन्योऽष्टावथ सुमतयोऽपाच्यरुचकात् / समाहारामुख्याः करसजलभृङ्गारसुभगाः, प्रणम्रास्तद्वत् ता यमककुभि तस्थुः प्रमुदिताः // 94 // ताः ऊर्चलोकाद् आगता दिक्कुमार्यः सुकृतेन शुभकर्मणा भृतं पूर्ण हृद् यासां ताः पुण्यशालिन्यः पुष्पाणि वृष्ट्वा पुष्पवर्षणं कृत्वा यावत्तस्थुः तावदेव इह जिनजन्मसूतिगृहे पौरस्त्यपूर्वात् लघुरुचकात् पौरस्त्यलघुरुचकादित्यर्थः / अन्याः उक्तेभ्य इतरा अष्टौ दिक्कुमार्यः समीयुरागत वत्यः, ताः नन्दोत्तराद्याः हृष्टाः सत्यः जिनस्य जिनजनन्याश्च पादयुग्मं प्रणम्यात्र ते तव सूनोर्जिनस्य रूपं परमत्युत्कृष्टमितीत्थं सुमताः समर्थनपराः दर्पणान् आदर्शान् दर्शयन्त्यः, इमा नन्दोत्तराद्याः जिनपतिगुणान् गायन्त्यः प्राच्यककुभि पूर्वदिशायामस्थुः, अथानन्तरम् अपाच्यरुचकादक्षिणरुचकात् सुमतयः शुभबुद्धयः स्वयमेव करे सजलैः भृङ्गारैः सुभगाः शोभासम्पन्नाः समाहारामुख्याः अष्टौ दिक्कन्यः दिक्कुमार्यः तद्वत् पूर्वोक्तदिक्कुमारीवत् प्रणम्राः कृतप्रणामाः सत्यः ताः सर्वाः प्रमुदिताः यमककुभि दक्षिणदिशि तस्थुः // 93 / / 94 // दिक्कन्य इति दिक्कन्योऽथ पराः प्रतीच्यरुचकादष्टौ समागुर्मुदेलादेवीप्रमुखा महाव्यजनबद्धस्ताः प्रशस्ताऽऽशयाः। नत्वा देव्यचिरायुतं जिनपति ताः सिद्धिसङ्घाप्तये, कुर्वाणागुणगानमन्तिकगतास्तस्थुः प्रतीच्यां दिशि // 15 // अथानन्तरम्, प्रतीच्यरुचकात् पश्चिमरुचकात् परा उत्कृष्टाः अन्या वा प्रशस्ताशयाः शुभाशयाः महाव्यजनवन्तः महातालवृन्तवन्तः हस्ता यासां ताः करधृतमहाव्यजनाः सत्यः इलादेवीप्रमुखाः अष्टौ दिक्कन्यः मुदा समागुः समागतवत्यः, ताः दिक्कन्यः सिद्धिसङ्घाप्तये .