SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् विज्ञायेतिविज्ञायाऽऽसनकम्पनादवधिना तीर्थेशितुः षोडशस्योत्पत्तिं वसुधातलादथ जिनान्ते दिक्कुमार्यस्तदा / अष्टावेत्य जिनं जिनस्य जननी चानम्य भोगङ्करामुख्या निर्भयमित्युदीर्य च वयं जन्मोत्सवायाऽऽगताः // 90 // आसनस्य स्वविष्टरस्य कम्पनाद्धेतोः अवधिनाऽवधिज्ञानद्वारा षोडशस्य तीर्थेशितुरुत्पत्ति जन्म विज्ञाय, अथानन्तरम् तदा दिक्कुमार्यः अष्टौ भोगङ्करामुख्याः वसुधातलादधोलोकात् जिनान्ते जिनसमीपे एत्यागत्य जिनं जिनस्य जननीञ्चानम्य निर्भयं जिनजन्मोत्सवाय वयमागता इत्युदीर्येत्युक्त्वा च // 90 // क्वापीति क्यापि स्थास्यति नाऽऽनन्तरं किल रजो जातेऽहतीतीव ता, यावदयोजनमार्हतेन मरुता संहृत्य भूमौ रजः / व्याख्यानावनिमानमेव जगतां प्रख्यातुमेवाऽऽदृता, गायन्त्यो धवलान् जिनेश्वरगुणांस्तस्थुः समन्ताज्जिनम् // 11 // अर्हति जिने जाते उत्पन्ने सति आन्तरं मानसं रजोमलं धूलिश्च क्वापि न स्थास्यतीति हेतोखि जगतां ता अष्टौ दिक्कुमार्यः यावद् योजनं सूतिगृहादाऽऽयोजनं आहृतेन विकुर्वितेन मारुता संवर्तेन वायुना भूमौ रजः संहृत्य क्ष्मां शोधयित्वा जगतां जगज्जीवानां व्याख्यानावनिः व्याख्यानस्य भूमिः तस्या मानं योजनप्रमाणमेव प्रख्यातुं कथितुमेवादृतास्समाचरन्त्यः धवलान् उज्ज्वलान् जिनेश्वर• गुणान् गायन्त्यो जिनं शान्तिनाथं समन्तात्परितः तस्थुः // 91 // अष्टाविति अष्टावेत्योर्चलोकादथ विधिनियता मञ्जु मेघङ्कराद्या, दिक्कन्या भक्तिभङ्गया जिनपतिजननी चापि नत्वा च नुत्वा / स्वाऽऽयाने हेतुमुक्त्वा विकृतजलधराः पापमालिन्यभाजो, . मेदिन्याः पावनायै ददुरधिकतरं गन्धवार्भिश्छटास्ताः // 92 // अधोलोकादिक्कुमारिकाऽऽगमनानन्तरम् ऊर्ध्वलोकादिवः विधिनियताः जिनजन्मोत्सवादिविधिकृतनियताचाराः नियोगनिश्चयाः मेघङ्कराधा अष्टौ दिक्कन्या मक्षु ऐत्य भक्तिभङ्गया भक्तिपूर्व कम् जिनपतेः जननी चापि, अपिना जिनञ्चेत्यर्थः / नत्वा नुत्वा च स्वस्य आयाने आगमने हेतुमुक्त्वा पापेन कृत्वा मालिन्यभाजः मलिनाया मेदिन्याः पृथिव्याः पावनायै शुचिकरणाय ताः
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy