________________ ____ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / वपुरिति वपुर्यथाऽऽभ्यन्तरदोषलक्षणे-मलैविमुक्तं परमेशितुस्तथा / तथाऽवदातं बहिरप्यभूद् मलै-र्जरायुदोषप्रमुखैविनाकृतम् // 86 // परमेशितुः जिनेश्वरस्य वपुः शरीरम् आभ्यन्तरैरन्तरङ्गैः दोषलक्षणैः रागदिरूपैरेव मलैः . यथा विमुक्तं रहितमभूत्, तथा तदा जन्मनि सति बहिरपि जरायुदोषः गर्भाशयदोषः प्रमुखः तैः मलैरपि विनाकृतं रहितं सदवदातं विशुद्धमभूत् / तादृशातिशयमाहात्म्यादिति भावः // 86 // तदेति-- तदा सुखं दुर्गतिवासिनामपि, क्षणं महानन्दविवर्णिकाऽभवत् / समुल्ललास त्रिजगत्प्रकाशक-स्तदा प्रकाशः समभानुभूरिव // 87 // तदा जिनजन्मावसरे, क्षणं किञ्चित्कालं दुर्गतिवासिनां नरकवासिनामपि. किमुतान्यत्रवासिनामित्यपेरर्थः / सुखमनायासेनैव महानन्दस्य विवर्णिका ख्यातिरभवत्, नारका अपि महानन्दमनुभवन्ति स्मेत्यर्थः / तदा तथा जिनजन्मकाले समा सर्वा भानोः सूर्यस्य भूरिव प्रदेश इव त्रिजगत्प्रकाशकः प्रकाशः तेजःपुञ्जः समुल्ललास आविर्बभूव, यद्वा समे सर्वे भानवो मरीचयः यस्यां सा चासौ भूश्च सेव, सकलभानुमती पृथ्वीव जातमित्यर्थः // 87 // दिशामितिदिशां दशानामपि संबभूव यः, परः प्रकाशः स बुधैर्वितर्कितः। न किंचिदन्यत् समवायिकारणं, न्यवीविदत् स्वस्य जनुर्विनाऽर्हतः // 88 // दशानां दशसङ्ख्याकानामपि दिशां यः परोऽतिमहान् प्रकाशः संबभूव, स बुधैः वितर्कितः किमेवमभूत् , किमस्योपादानकारणमित्यादि चिन्तितम् किन्तु, स्वस्य स्वश्रद्धेयस्यार्हतः जिनस्य जनुः जन्म विना जन्मनोऽन्यत् किश्चित्समवायिकारणं तेजस उपादानकारणं न न्यवीविदत्, विवेद अर्हज्जन्मप्रभावादेव तादृशः प्रकाशः न तु तस्य कारणान्तरमित्येवं निश्चिकायेत्यर्थः // 88 // . दिवीतिदिवि स्वयं दुन्दुभयोऽनदंस्तमां, तदा प्रणुन्ना इव पुण्यकर्मणा / तथाऽनुकूलाः पवना ववुः परं, निजां ब्रुवाणा इव कामरूपताम् // 89 // तदा जिनजन्मनि दिवि आकाशे-"यौ दिवौ द्वे स्त्रियामभ्रं व्योमे"त्यमरः पुण्यकर्मणा पुण्येन प्रणुन्नाः प्रेरिता इव दुन्दुभयः स्वयं परेणावादिताः अनदंस्तमाम् नेदुः / तथा पवनाः निजां स्वीयां कामरूपताम् यथेच्छरूपताम् अनुकूलत्वस्य प्रतिकूलत्वस्य वा स्वाधीनतां ब्रुवाणाः ख्यापयन्त इव परमत्यन्तमेव अनुकूलाः सुखस्पर्शाः सन्तः ववुः वान्ति स्म // 89 //