SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ 29 आ० श्रीविजयदर्शनसरीश्वरकृत-प्रबोधिनीयुतम् सुरैरिति सुरैर्मदीयानि फलानि तत्क्षणं, जिनेन्द्रजन्मस्नपनोत्सवे कृते / कृतार्थनीयानि पुरो निवेशना-दितीव चूता ननृतुः स्फुरदलैः // 83 // . ग्रीष्मे, चूताः आम्राः, जिनेन्द्रजन्मनि स्नपनोत्सवे स्नात्रमहोत्सवे कृते करणीये समये सति सुरैः देवैः तत्क्षणं मदीयानि आम्रस्य फलानि, यथासमयत्वादिति भावः, पुरः प्रथम निवेशनात्स्थापनात् कृतार्थनीयानि कृतकृत्यानि कृतानि करिष्यमाणानि सन्ति इति हेतोः जातहर्षादिव स्फुरद्भिः चलद्भिदलैः पत्रैः कृत्वा ननृतुः अन्योऽपि हि हर्षे सति नृत्यतीते भावः // 83 // अथ युग्मेन जिनेशजन्माह दुष्पूरेष्वपि दोहदेषु तरसा संपूर्यमाणेश्वरं, ज्ञायं ज्ञायमनुक्षणं नृपतिना तस्याः सखीनां मुखात् / एवं मास्सु नवस्वितेषु दिवसः साधं च सार्धाष्टमैज्येष्ठे मास्यसिते त्रयोदशतिथौ तस्यां भरण्यां च भे // 84 // उच्चेषु त्रिषु केन्द्रतामुपगतेष्वन्येषु तत्सु ग्रहेविन्दु माघवतीव दिक् स्म महिषी सूते मृगाङ्क सुतम् / पीयूषधतिमण्डले मलिनिमा प्राप्यः कलङ्काङ्करः, संपूर्णत्वमुपेयुषि प्रतिकलं वृद्धया न तस्मिन् परम् // 85 // युग्मम् नृपतिना विश्वसेनेन तस्या अचिराया सखीनां मुखात् , लज्जया साक्षादनिवेदनादिति भावः / अनुक्षणं ज्ञायं ज्ञामं दोहदानि पुनः पुनः ज्ञात्वा दुष्प्रेषु अन्यैः असाध्येष्वपि दोहदेषु गर्भमनोरथेषु तरसा जवेन अरमत्यर्थं सम्पूर्यमाणेषु एवमुक्तप्रकारेण सार्धाष्टमैः अर्धाधिकाष्टमैः दिवसैः सार्धं सह नवसु नवसङ्ख्याकेषु मास्सु मासेष्वितेषु व्यतीतेषु ज्येष्ठे मासि असिते कृष्णपक्षे त्रयोदशी चासौ तिथिश्च तस्यां तस्यां भरण्यां च मे नक्षत्रे त्रिषु तत्सु चन्द्रगुरुशुक्रेषुशुभेषु ग्रहेषु उच्चेषु उच्चस्थानस्थितेषु तत्सु अन्येषु ग्रहेषु केन्द्रतां केन्द्रस्थानं प्रथमचतुर्थसप्तमदशमस्थानमुपगतेषु प्राप्तेषु तत्सु माधवती पूर्वादिगिन्दुमिव महिषी अचिरा देवी मृगाकं मृगलाच्छनं षोडशजिनरूपं सुतं सूते स्म, प्रतिकलम् कलया कलया कृत्वा वृद्धया वर्द्धनाद्धेतोः सम्पूर्णत्वमुपेयुषि प्राप्ते पीयूषद्युतेः चन्द्रस्य मण्डले कलङ्काङ्कुरः लाञ्छनाकृतिरूपः मलिनिमा मालिन्यं प्राप्यः लभ्यः परं किन्तु तस्मिन् युगपदेव सम्पूर्णत्वमुपेयुषि जिनेश्वरे न मलिनिमा प्राप्यः, तद्धेतोः प्रतिकलं वृद्धेरेवाभावदिति भावः // 85 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy