________________ 28 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / / इत्यमरः / उत्पततामुड्डीयन्ति उड्डीयमानि बहूनि रजांसि एव वासो वस्त्रं यस्याः सा तादृशी पिकस्य कोकिलस्य इव रखो यस्याः सा पिकरवा सती रङ्गाद्धर्षात् गर्भगं जिनं गातुं समागात् गानं कृतवतीव / रूपकानुप्राणितोत्प्रेक्षा // 79 // निरस्येतिनिरस्य जाडयं प्रसरं पराश्रितं, समाश्रयन् धाम सुदुःसहं खलु / अथोग्रकमेक्षयदारुणाशयः, प्रवतयामास तपः स्वशासनम् // 8 // अथ वसन्तानन्तरम् तपः ऊष्मागमः ग्रीष्म रिति यावत् , “ऊष्ण उष्मागमस्तप" इत्यमरः तथा तपति तपस्यतीति स कश्चिन्महान् तपस्वी जिनेशप्रभृतिः पराश्रितम् जनतास्थितम् जाड्यस्य शीतस्य अज्ञानस्य च प्रसरं प्रवृत्तिं निरस्य दूरीकृत्य खलु निश्चयेन सुदुःसहं परतेजोऽभिभावकं धाम तेजः ग्रीष्मे सूर्यस्य प्रचण्डकिरणत्वाजिनेशस्य च परमतेजस्वित्वादिति भावः / समाश्रयन्, उग्राणाम् परिश्रमसाध्यानाम् अथ च दुष्परिणामानां कर्मनां कृत्यादीनां हिंसादीनां च क्षये दूरीकरणे दारुणः कठोर आशयो यस्य स तादृशः, ग्रीष्मे कृत्यादिकर्मनिवृत्तेः, जिनेन अहिंसोपदेशाच्चेति भावः / स्वशासनम् स्वप्रभावं स्वप्रवचनं च प्रवर्त्तयामास / श्लेषः / / 80 // मयीतिमयि प्रभोर्वत्सलता विलोक्यते, जनुर्यदन्यत्र ऋतौ बभूव / इतीव मल्लीसुमदम्भसघशा, बभार तेजःपसरं तपागमः // 8 // मयि ग्रीष्मत्तौं प्रभोर्जिनेशस्य वत्सलता स्नेहः विलोक्यते ज्ञायते, तत्र हेतुमाह यद्यतः अन्यत्रान्यस्मिन् ऋतौ जनिः जिनेशजन्म न बभूव किन्तु ग्रीष्मद्वेव भावि, इति हेतोरिव मल्ल्याः मल्लिकायाः सुमानां पुष्पाणां दम्भेन व्याजेन सद्यशाः धवलयशाः तपागमो ग्रीष्मर्तुः तेजःप्रसरं तापसम्पदं बभार / तपागमे तापवृद्धिः सहेतुकत्वेनोत्प्रेक्षिता // 81 // स्वेतिस्वनायकं सेवकवृद्धिसंक्षयौ, सदाऽनुयातः कथमन्यथा तपे। प्रवर्धमाने दिननायके दिनं, प्रवर्धते चापरथा न कि हिमे ? // 82 // सेवकस्य वृद्धिरभ्युदयः संक्षयोऽवनतिश्च तौ वृद्रिहासौ सदा स्वनायकं स्वामिनमनुयातोऽनुसरतः, स्वामिवृद्धिहासाभ्यां सेवकस्य अपि वृद्धिहासौ इति भावः, अन्यथाऽनुपपत्तिमाहअन्यथा प्रकारान्तरे तपे ग्रीष्मे दिननायके सूर्ये प्रवर्धमाने तेजोवृद्धयेति भावः / दिनं कथं प्रवर्धते ? ततोऽन्वयः सिध्यतीति भावः, व्यतिरेकमाह-हिमे हेमन्तौ अपरथा सूर्यतेजोहासे कथं न? प्रवर्धते, तदेवमन्वयव्यतिरेकावुक्तमर्थं साधयतीति भावः // 82 //