________________ 27 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् यस्माद्भाव्यचिराङ्गजः सबलवान् वैरीति पुस्कोकिलस्येदृग्वाक्श्रवणादिवाऽथ सुरभिस्तूर्ण समाजग्मिवान् // 77 // अथ शिशिरानन्तरम् पुंस्कोकिलस्य इतीदृशः वाचः श्रवणादिव सुरभिः वसन्ततः “सुरभिश्चंपके स्वर्णे जातीफलवसन्तयो"रिति विश्वः तूर्ण समाजग्मिवान् , वसन्तकालः प्राप्त इत्यर्थः / इतीति किमित्याह श्रीमद्वसन्तप्रभो ! जयिनः लोकवशीकरणाज्जयवतः सदर्पकस्याभिमानिनः कन्दर्पस्य कामदेवस्य सुहृदः स्वमित्रस्यास्य साहाय्य साहायकं त्वया भवता वसन्तेन कदाचनाऽपि नैव त्याज्यम् , ननु तस्य मम सहाय्येन किमिति चेत्तत्राह यस्माद्यतो हेतोः अस्य कामस्य बलवान् वैरी, लेन कामजयादिति भावः / स प्रसिद्धः अचिराङ्गजः अचिरासूनुः षोडशतीर्थङ्करो भावी भविष्यति, एवञ्च भाविन्यां तकृतपराजये मित्रधर्ममनुरुध्य त्वया साहाय्यक विधेयम् , न तु त्याज्यमिति भावः, वसन्ते पुंस्कोकिलो रौति, कामश्च जागतीति भावः // 77 // पात्रेति-- पात्राधीशस्त्रिभुवनगुरुस्तद्विमानं विमुच्य, देव्या गर्भ श्रयति वसुधामण्डलाऽऽभूषणायाः / पत्राणां नस्तदुपरिवृतां सत्यमाशातना स्यादित्यालोच्य क्षितिरुहचयाद् यत्र पत्राणि पेतुः // 78 // यत्र वसन्ते क्षितिरुहचयाद् वृक्षसमुदयात्पत्राणि इत्यालोच्य इव पेतुः गलन्ति स्म, इतीति किमित्याह-पात्राणां सतामधीशः त्रिभुवनगुरुः जिनेशः तं प्रसिद्धं विमानं विमुच्य त्यक्त्वा वसुधामण्डलस्य आभूषणायाः मण्डयित्र्याः देव्या अचिराया गर्भ श्रयति, तत्ततः तस्य उपरि ऊर्ध्वप्रदेशे वृतां वर्तिनां नोऽस्माकम् पत्राणामाशातनाऽविनयः स्यात् , पूज्यापेक्षयोर्ध्वदेशस्थितिरविनय इति भावः // 78 // कौशुम्भमिति-- कौशुम्भं वचनं च किंशुकमुमा-भारच्छलाद बिभ्रती, चञ्चच्चम्पकपुष्पकुङ्कुमघनालेपस्फुरत्पाण्डिमा / माकन्दप्रसवोत्पतद्वहुरजोवासा जिनं गर्भगं, रङ्गाद् यत्र वनस्थली पिकरवा गातुं समागादिव // 79 // यत्र वसन्ते वनस्थलीवनप्रदेशः"पलाशे किंशुकः" इत्यमरः / किंशुकानां पलाशानां सुमानां पुष्पाणां भारस्याधिक्यस्य च्छलाद् व्याजेन कौशुम्भं वसनं रक्तवस्त्रमित्यर्थः / बिभ्रती, तथा चञ्चलां विकसतां चम्पकानां पुष्पाणि एव कुङ्कमस्य काश्मीरजस्य घनः गाढः आलेपः उद्वर्त्तनम् तेन स्फुरन् प्रकटः पाण्डिमा यस्याः सा तादृशी तथा माकन्दस्य प्रसवाणां पुष्पाणां 'प्रसवस्तु फले पुष्पे'