________________ 26 श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / क्रोधात् प्रसभं हठात्पद्मानि अधाक्षीन्नाशयामास, शिशिरे पनानि नश्यन्ति तत्र व्यतिरेकपोषितसहेतुकत्वोत्प्रेक्षा // 7 // वृद्धाभिरिति वृद्धाभिः स्वकुलाबलाभिरुदयत्पुत्रान्विताभिस्ततस्तस्याः शीलविभूषणाभिरुचिताचारोपचारप्रियः / भर्तृस्नेहवशंवदाभिरमलपज्ञाभिरावाल्यतः, सीमन्तोन्नयनं व्यदीधपदयं क्ष्मापालचूडामणिः // 7 // ततोऽनन्तरम् उचिताचारस्योपचारे विधाने प्रियः रुचिमान् आचारपालकः क्षमापालचूडामणिः अयं विश्वसेनः वृद्धाभिः स्वकुलस्याबलाभिः स्त्रीभिः उदयता वर्द्धमानेन पुत्रेणाऽन्विताभिः, सपुत्राभिरित्यर्थः, तथा, शीलविभूषणाभिः भर्तृस्नेहवशंवदाभिः पतिप्रियतमाभिः तथा आबाल्यतः बाल्यादेवाऽऽरभ्य अमलप्रज्ञाभिः बुद्धिमतीभिः कृत्वा तस्या अचिरायाः सीमन्तोन्नयनं सीमन्तकर्म व्यदीधपत् कारयामास, गर्भाधानानन्तरं सीमन्तोन्नयनविधानाचारादिति भावः // 75 / / जातिरिति-- जातियत्र प्रकटयति न स्वं निलीनेव गूढं, पद्मानामप्यपचितिरभूनिःस्ववद् यत्र सत्यम् / माकन्दानां परिमलभरः स्मयते यत्र तत्र, कुन्दैरेभिर्विकसितमहो हि ! विचित्रैव सृष्टिः // 76 // यत्र शिशिरे जातिः गूढं, मालती 'सुमना मालती जातिः' / इत्यमरः / गुप्तं निलीनाऽन्तर्हिता इव स्वमात्मानं पुष्पोद्गमादिना न प्रकटयति, शिशिरे जातिपुष्पोद्गमाभावादिति भावः / , तथा यत्र शिशिरे पद्मानां कमलानामप्यपचितिः क्षयः सत्यं निःस्ववदरिद्रवदभूत् , दरिद्रस्य जाड्यनिवारणावरणवस्त्राभावात् , पद्मानां हिमात् शिशिरेऽपचयो भवतीति भावः / सत्यमेवैतत् / तत्र शिशिरे यत्र तत्र सर्वत्र माकन्दानां परिमलभरः आमोदातिशयः स्मर्यते न तु प्राप्यते शिशिरे माकन्दविकाशाभावादिति भावः तत्र शिशिरे एभिरतिलघुभिः कुन्दैः माध्यापरनामकैः पुष्पैः विकसितं अहो ! इत्याश्चर्ये यत्र तादृशानां प्रसिद्धानामभावः तत्र लघुनो विकास इत्याश्चर्यमिति भावः। यद्वा हीति खेदे, सृष्टिविचित्रा गौरवलाघवविवेकरहितेति खेद इति भावः, शिशिरे कुन्दानि विकसन्तीति भावः // 76 // कन्दर्पस्येति-- कन्दर्पस्य सदर्पकस्य जयिनः श्रीमद्वसन्तप्रभो ! त्याज्यं नैव कदाचनाऽपि सुहृदः साहाय्यमस्य त्वया /