________________ . आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 25 दिनमितिदिनं प्रकाशं दधतां स्वमानतो, निजस्य याऽस्मासु भविष्यते जनिः / इति क्षपा यत्र दधुर्नतानवं, प्रमोदमेदस्वितयेव ता नवम् // 72 // दिनं स्वमानतः स्वप्रमाणतः प्रकाशं सूर्यप्रकाशं दधताम् आधिक्यं न गच्छतु, तेन किम् ? जिनस्य जनिर्जन्म चास्मासु रात्रिष्वेव भविष्यते प्राप्स्यसि भूधातोः प्राप्त्यर्थकस्यात्मनेपदिनो रूपमिदभिति बोध्यम् / इति हेतोः ताः हेमन्तस्य क्षपा रात्रयः प्रमोदेन मेदस्वितया स्थूलतया इव नवं विलक्षणं, नतानवं दीर्घतां दधुः, हेमन्ते रात्रयो दीर्घा भवन्ति तदेव अत्र सहेतुकत्वेनोत्प्रेक्षितम् // 72 // जात इति - जातेऽस्मिन् परमेश्वरे जिनपतावाचूलमापन्नखं, रागः पुण्यविधौ न येषु भविता तेन प्रशंसापदम् / इत्यादावपि संविमृश्य हृदये यं संनिधातुं जना, यस्मिन् कुङ्कुमपङ्कलेपनमिषादभ्यासमेवार्जयन् // 73 // यस्मिन् हेमन्ते जिनपतौ परमेश्वरे जाते उत्पन्ने सति अस्मिन् जिनजन्मरूपे पुण्यविधौ पुण्यकर्मणि येषु जनेषु आचूलमाशिखमापदः चरणस्य नखं यावत् रागः कुङ्कुमद्रवादिरूपः अथ च प्रीतिः न भविता ते तादृशजनाः प्रशंसापदं न अपि तु निन्दनीया एव इति हेतोः आदौ जन्मनः प्रागपि हृदये संविमृश्य विचार्य जना यं राग संविधातुं कर्तुं कुङ्कुमपङ्कस्य लेपनमिषाल्लेपनव्याजेन अभ्यासमेवार्जयन्नकुर्वन् , हेमन्ते क्रियमाणस्य कुङ्कुमादिलेपस्य सहेतुकत्वोप्रक्षा |73 // मातुरिति मातुस्तीर्थपतेर्न किञ्चन मुखच्छायां दधन्ते तरामेतानि प्रसभं विभोर्नयनयोः स्पक्ष्यन्ति कान्ति न च / साम्यं नो करपल्लवेन न पदाऽप्यासादयन्ते ततो, मा भूवन्निति कोपतोऽथ शिशिरः पद्मान्यधाक्षीदयम् // 74 // ____ अथ हेमन्तानन्तरमयं वर्तमानः शिशिरः एतानि पद्मानि तीर्थपतेः मातुः मुखच्छायां मुखकान्ति किञ्चनाण्वपि न दधन्ते तराम् / किञ्च विभोर्जिनेशस्य नयनयोः कान्ति च न स्प्रक्ष्यति, तथा करपल्लवेन साम्यं नासादयन्ते पदा चरणेनाऽपि साम्यं नासादयन्ते, पद्मापेक्षया तेषामुत्कृष्टत्वादिति भावः, ततः निष्प्रयोजनवादेतानि पद्मानि मा भूवन् माऽस्तु इति कोपतः शा.