________________ 24 IN का श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः। कपोलपर्यन्तं विसृत्वरा द्युतिर्यस्य स तादृशः मुखपाण्डिमा मुखस्य पाण्डुतैव तं गर्भमजिज्ञपन्निवेदयति स्म, एवञ्च गर्भस्थप्रभावादेव कष्टकारिण्युदरस्य वृद्धिर्नेति बोध्यमिति भावः // 68 // स्वेति स्वभावतो देव्यपि मन्दगामिनी, विशेषतो गर्भभरेण साऽभवत् / विसारिणा केवलदानवारिणा, यथा महावारणराजवल्लभा // 69 // देबी अचिराऽपि स्वभावतः मन्दगामिनी उत्तमस्त्रीत्वादिति भावः / सा गर्भभरेण गर्भभारेण विशेषतः पूर्वापेक्षयाऽधिकमेव सा तादृशी मन्दगामिन्यभवत् / यथा विसारिणा प्रसरणशीलेन केवलेन दानवारिणा मदजलेन महावारणराजस्य वल्लभा प्रिया करिणी मन्दगमना भवति तथेति भावः // 69 // . जाडयमिति जाडयं मत्तः प्रभवति जने यत्कलङ्कं तमेव, जाने स्वस्याऽहमपि यशसां संक्षयस्यैकहेतुम् / मा भूद् युष्मचरणकमलानुग्रहात् तद् ममेति / माग् विज्ञप्तिं रचयितुमिवाऽथाऽऽर हेमन्तकालः // 70 // अथ शरदनन्तरम् मत्तः हेमन्ततः जाड्यं शीताधिक्यं जडता च प्रभवति इति जने लोके यः यत्कलकोऽपवादः तं कलङ्कमेवाऽहमपि 'कलकोऽपवादयोः' इत्यमरः / हेमन्तर्तुः स्वस्य निजस्य हेमन्तस्य यशसां संक्षयस्यैकं मुख्य हेतुं कारणं जाने तद्यशःक्षयः युष्माकं जिनेश्वराणां चरणकमलानुग्रहात् मम हेमन्तस्य मा भूत् , जिनेशेन सम्यग्ज्ञानोपदेशेन जडताया विनाशनादिति भावः इतीत्थं विज्ञप्तिं रचयितुं कर्तुमिव हेमन्तकालः प्रागेवाऽऽराऽऽजगाम / श्लेषमूला हेमन्तागमने सहेतुकत्वोत्प्रेक्षा // 7 // ममेति मम प्रकाशेन निरर्थकेन किं, जिनस्य यस्मिन् न जनिर्भविष्यति / इतीदृशं दुःखभरं श्रयद् दिनं, दिने दिने यत्र दधार तुच्छताम् // 71 // यस्मिन् हेमन्ते दिनं दिवसम् मम हेमन्तदिनस्य निरर्थकेणाफलेन प्रकाशेन किं ? न किमपीत्यर्थः नैष्फल्यहेतुमाह न यस्मिन् हेमन्तदिने जिनस्य जनिर्जन्म न भविष्यति तदेवं दिनं सफलं यत्र जिनजन्मेति भावः इतीदृशमुक्तप्रकारं दुःखभारं चिन्ताखेदं श्रयदिव दिने दिने तुच्छतामल्पतामदीर्घतां दधार / हेमन्ते दिनानि हूस्वानि जायन्ते, तत्र सहेतुकत्वोत्प्रेक्षा, सा च व्यन्जकेवाद्यप्रयोगाद्गम्या // 71 //