________________ 23 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् आत्मनः प्रमोदातिशयादिव रविः स्वतेजसा यस्यां शरदि ववृधे अग्रतेजा अभूदित्यर्थः शरदि रविः प्रचण्डकिरणो जायते स च सहेतुकत्वेनोत्प्रेक्षितः // 64 // अमुष्येतिअमुष्य पश्चादपि पर्युपासनां, परे करिष्यन्ति जना अहं पुनः / मुनीनमाऽऽगर्भमिनं मुनिर्भजे, त्वितीव यस्यामुदगादगस्त्यकः // 65 // ___ यस्यां शरदि, अमुष्य जिनेश्वरस्य परे जनाः पश्चादपि जन्मानन्तरमपि पर्युपासनां करिष्यन्ति, अहं पुनः मुनीनं मुनीन्द्रम् इनं स्वामिनं जिनेशमागर्भ गर्भादेवारभ्य भजे इति बुद्धयेव तु मुनिरगत्यकः अगस्त्यो मुनिः नक्षत्रविशेषरूपः उदगादुदयमियाय, शरदि अगस्त्योदयः सहेतुकत्वेनोप्रेक्षितः // 65 // मुखमितिमुखं स्वभावेन सुवर्णकेतकी-दलाभमस्या अपि पाण्डुतां दधौ। विनापि काश्मीरविलेपनं रसैः प्रवर्धमानोत्तमगर्भसङ्गमात् // 66 // अस्या अचिरायाः स्वभावेनैव सुवर्णकेतकीलतायाः दलाभं पत्रप्रभं मुखम् प्रवर्धमानस्योतमस्य गर्भस्य सङ्गमात्प्रभावात् रसैः कृत्वा काश्मीरस्य कुङ्कुमस्य विलेपनं विनैव पाण्डुतां दधौ, गर्भवत्या मुखं पाण्डु जायते इति भावः // 66 // : इयमितिइयं स्वभावादपि चारुताधिका, ततोऽतिरिक्ता महिषीपदं श्रिता / अनेन गर्भण न दृष्टिदूषिता, भवेदिति श्याममुखौ स्तनौ तदा // 6 // - इयमचिरा स्वभावादपि स्वभावत एव चारुतया अधिका अधिकरमणीया, महिषीपदं श्रिता सति ततोऽप्यधिकाप्यतिरिक्ता अधिकतमरमणीया जाता, गुणानां . स्थाने अतिशयाधानादिति भावः / अनेन गर्भेण कृत्वा दृष्टिदूषिता न भवेदिति हेतोरिव तदा तस्याः श्याममुखौ कृष्णाग्रौ स्तनौ जातो, गर्भावस्थायां स्तनमुखं नीलायते इति भावः / अन्योऽपि हि दृष्टिदोषनिरणाय * क्षेत्रादौ कृष्णभाण्डादि स्थापयतीति भावः स्तनमुखनीलता सहेतुकत्वेनोत्प्रेक्षिता // 67 // ... बभूवेति बभूव देव्या जठरं न पीवरं तदाऽपि गर्ने परिपुष्यति श्रियम् / अजिज्ञपत् तं मुखपाण्डिमा परं, कपोलपर्यन्तविमृत्वरद्युतिः // 68 // तदा गर्ने श्रियं वृद्धिं परिपुष्यति प्राप्तवत्यपि सति देव्या अचिराया जठरमुदरं पवीरं न बभूव, ननु गर्भे वर्धमाने उदरमुच्छ्रयत्येव, अन्यथा गर्भसत्त्वं नेति चेत्तत्राह-परं किन्तु