________________ श्रीशान्तिमाथमहाकाव्यम् चतुर्दशः सर्गः / प्रपेतिप्रपद्यमानेऽभ्युदयं जिनेश्वरे, महार्यतां यास्यति जातिरेकिका / इतीव वर्षासु विकाशमासदद्, गुणप्रकर्षण व जातिरात्मनः // 61 // जिनेश्वरे अभ्युदयं जन्म प्रपद्यमाने प्राप्ते सति एकिका केवलं जातिः सामान्यं महार्घतां दुर्लभतां यास्यति तेन स्याद्वादोपदेशनात्तत्र वस्तुनः सामान्यविशेषात्मकस्यैव समर्थनादेकम् विशेषात्पृथक् तन्त्रान्तरसम्म सामान्य दुर्लभं भवेदित्याशयः / इति हेतोरिव वर्षासु आत्मनः स्वस्य गुणप्रकर्षेण महार्घत्वरूपगुणातिशयेनव इव जातिः मल्लिकालताविकाशमासदत् पुष्पिता / श्लेषमूलोत्प्रेक्षाऽलङ्कारः // 61 // द्वीतिद्विजिह्वभावं न सहिष्यते प्रभुः, पुराऽपि तन्नाशमतो विदध्महे / इति द्विजिहक्षयबद्धविश्रमाः, कलापिनः प्रादृषि नेदुरुन्महाः // 62 // प्रभुः द्विजिह्वभावं पिशुनतां न सहिष्यते सत्यव्रतत्वादिति भावः तत्ततोऽतः पुराऽपि प्रागेव तस्य द्विजिह्वस्य सर्पस्य नाशं विदध्महे / इति हेतोः प्रावृषि वर्षौं उन्महाः उन्मदाः सन्तः कलापिनः मयूराः द्विजिह्वानां सर्पाणां क्षये बद्धः विभ्रमः विलासः येषां तादृशाः सर्पनाशबद्धपरिकरा इव नेदुः जगुः / / 62 // . जडेतिजडाशयानां कलुषत्वशालिनां, न दर्शनं तस्य विभोर्भविष्यति। इतीव तन्निर्मलतां प्रकुर्वती, समाययौ हंसकनादिनी शरत् // 63 // कलुषत्वशालिनां पापिनां जडाशयानां मन्दानाम् अथ च वर्षौं रजोमिश्रितत्वाद् अनच्छानां तडागानाम्. तस्य विभोर्जिनेशस्य दर्शनं न भविष्यति, पापितया मन्दबुद्धितया तस्मिन् श्रद्धाऽभावात् अप्कायविराधना मा भूदिति तडागादौ अगमनात् चातुर्मास्ये विहाराकरणाच्चेति भावः / इति हेतोरिव तेषां जडाशयानां निर्मलतां प्रकुर्वती हंसकनादिनी हंसरवा शरदऋतुः समाययौ शरदि जलान्यच्छानि भवन्तीति भावः // 63 // . मह इतिमहः प्रभोर्यद्यपि भावी चासमं, तथाऽपि वयं मयका सहैव तत् / इतीव यस्यां वधे स्वतेजसा, रविः प्रमोदातिशयादिवात्मनः // 64 // प्रभोर्जिनेशस्य महः तेजो यद्यपि असमं निष्प्रतिम भावि भविष्यति तथापि तज्जिनतेजः मयका रविणा सहैव वयं स्यात्, तेजसि व्युपमाया प्रसिद्धेरिति भावः इति हेतोरिव