________________ आ० श्रीविजयदर्शन सूरीश्वरकृत-प्रबोधिनीयुतम् सिंहासनादुत्थितः नृपतिश्च देव्याः सामीप्यं समुपेत्यागत्य मानसमुदे चेतस्तुष्ट्यै दैवज्ञैः कथितं श्रुतं च स्वप्नार्थं तस्या देव्याः पुरोऽग्रे-व्याकरोन्निवेदयामास // 57 / / दधारेतिदधार सा गर्भमनन्तरं सती, सतीव सौभाग्यगुणेन मानिनी / गुणोज्ज्वलं शुक्तिरवाप्तसंवरा, महाशया मौक्तिकवद् मनोहरम् // 58 // अनन्तरं सौभाग्यगुणेन सती पार्वतीव मानिनी मानार्हा महाशयोदारा सा सती अचिरा अवाप्तसंवरा प्राप्ता सती शुक्तिः मौक्तिकवत्, गुणोज्ज्वलं मनोहरं गर्भ दधार // 58 // गर्भप्रभावमाह रुग्मेति रुग्मारिप्रमुखाशिवानि शतशः पूर्व बभूवुस्तदा, माणघ्नानि शरीरिणां जनपदे तस्मिन् कुरौ सर्वतः / तन्नाशाय जनश्चकार विविधोपायान् समग्रान् परं. शाम्यन्ति स्म न तानि तैरपि जलैरब्धेरिवौर्वाग्नयः // 59 // रुगिति, तदा पूर्व तीर्थशस्य गर्भावतारात्पूर्व तस्मिन् कुरौ जनपदे देशे सर्वतः सर्वत्र शरीरिणां प्राणिनां प्राणघ्नानि मृत्युकारकाणि शतशः अनेकानि रुंजः रोगाः रोगभूताः मारयः मरकीत्याख्यप्राणहररोगविशेषाः / तत्प्रमुखानि अशिवानि अमङ्गलकराणि उपद्रवानि बभूवुः तेषां अशिवानां नाशाय जनः समग्रान् शक्यान् विविधानुपायान् प्रतीकारान् चकार, परं किन्तु अब्धेः जलैरौर्वाग्नयः वडवानला इव तैरुपायैरपि तानि अशिवानि न शाम्यन्ति स्म // 59 // ... देव्या इति देव्याः कुक्षिमुपागते जिनपतौ सर्वाणि तान्यक्रमात् , ___ तत्कालं विशरारुतामुपययु-धर्मा इवेन्दये / ईदृग् यस्य महाप्रभावविभवो गर्भावतारेऽप्यभू ज्जातो दर्शनमात्रतः स भविनां-किं किं न कर्ता सुखम् ? // 60 // जिनपतौ देव्या अचिरायाः कुक्षिं गर्भमुपागते प्राप्ते सति अक्रमायुगपदेव, इन्दूदये चन्द्रोदये धर्मा ऊष्माण इव तत्कालं विशरारुतां नाशमुपययुः / यस्य तीर्थेशस्य गर्भावतारेऽपि ईदृगुक्तप्रकारः महतः प्रभावस्य विभवः स तं लोकासाध्यकार्यानुकलाचिन्त्यसामर्थ्यविशेषः अभूत् , स तीर्थेशः जातः उत्पन्नः सन् दर्शनमात्रत एव भविनां किं किं सुखं न कर्ता ? अपि सर्वप्रकारं सुखं करिष्यतीत्यर्थः // 6 //