________________ 20 MAAAAA श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः वस्त्रं यस्याः सा तादृशी सती विहगानां पक्षिणां विरुतस्य शब्दस्य व्याजेन च्छलेन उच्चैःस्वरा सती गायति किलेत्यलीके / अन्यापि हि हर्षावसरे रक्तवस्त्रं परिधाय वधूभिः सहोच्चायतीति भावः // 54 // प्रातरिति प्रातःकृत्यमसौ विधाय विधिवच्छीविश्वसेनो नृपः, सामन्तैः सचिवैः सहातिविनतैरध्यास्य सिंहासनम् / जानन्निन्द्रसमागमादपि जिनं गर्भावतीर्ण प्रिया प्रीत्यै स्वमविचारशास्त्रचतुरानष्टौ समाजूहवत् // 55 // असौ प्रस्तुतः श्रीविश्वसेनो नृपः विधिवद्यथाविधि प्रातःकृत्यं स्नानपूजावन्दनादिकं विधाय अतिविनतैः विनम्रतेरैः सामन्तैः सचिवैश्च सह सिंहासनमध्यास्य इन्द्रसमागमात् गर्भा क्तीण जिनं जानन्नपि गर्भे जिनेश्वर एव अवतीर्णोऽस्ति, इन्द्रागमनान्यथानुपपत्तेरिति भावः / प्रियायाः प्रीत्यै मनस्तोषाय स्वप्नविचारशास्त्रे चतुरान् अष्टौं दैवज्ञान् समाजूहवत् // 55 // मायाता इति आयाता विनिवेशितेष्वपि पुरा भद्रासनेष्वासिता, दृष्टस्वमफलोदयं विनयतो राज्ञाऽनुयुक्ताः स्वयम् / तेऽप्यूचुनरदेवसिंह भविता ते धर्मचक्री सुत चक्री वेतिनिशम्य हृष्टमनसा तेनाऽपि ते सत्कृताः // 56 // आयाता आगताः पुरा प्रागेव विनिवेशितेषु स्थापितेषु भद्रासनेषु आसिता अपि उपवेशिताश्च राज्ञा विश्वसेनेन स्वयमेव विनयतः विनयपूर्वकम् दृष्टानां स्वप्नानां फलोदयं फलप्राप्तिमनुयुक्ताः पृष्टाः ते दैवज्ञा अपि ऊचुः, किमित्याह नरदेवसिंह / नृपश्रेष्ठ! चक्रीव चक्रवर्तीव धर्मचक्री धर्मचक्रप्रवर्त्तयिता ते तव सुतः भविता इतीत्थं निशम्य हृष्टमनसा तेन नृपेण ते दैवज्ञाः सत्कृताः // 56 // रत्नेति रत्नस्वर्णविभूषणैर्बहुविधैर्देव्याऽपि ते पूजितास्तुष्टा धाम ययुनिजं जवनिकाऽन्तर्धानपीठश्रिताः / सामीप्यं समुपेत्य मानसमुदे सिंहासनादुत्थितः, स्वमार्थ कथितं श्रुतं च नृपतिस्तस्याः पुरो व्याकरोत् // 57 // ते दैवज्ञाः देव्या अचिरयाऽपि बहुविधैः रत्नस्वर्णविभूषणैः पूजिताः अत एव तुष्टाः सन्तः जवनिकायाः परकुड्यस्यान्तर्धानेन व्यवधिना पीठश्रिताः विमुखाः भूत्वा निजं धाम गृहं ययुः