SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ आo श्रीविजयदर्शन सूरीश्वरकृत-प्रबोधिनीयुतम् इत्युक्तप्रकारेण नुत्वा जिनपतिं जिनस्य मातरं च नत्वा दिविषदधिपाः देवेन्द्राः प्रमदनिचयेन हर्षातिरेकेण यः प्रोल्लासः शुभोत्साहः तस्माद्धेतोर्य एकः कोऽपि प्रयोगः व्यापारस्तन्निबन्धनम् तद्धेतुकं नन्दीश्वरे यात्रां विरचय्य च, हर्षावसरलाभतः सोत्साहाः जनाः शुभादिकिमपि कुर्वन्तीति भावः / महितर्द्धयः उत्कृष्टर्धिमन्तः ते देवेन्द्राः प्रकृतमहिम गौरवास्पदं स्वं स्वं धाम स्थानमगमन् // 51 // - बुधैरिति बुधैः सुपुत्रेण तिरश्च्यपि स्तुता, परं किमन्याऽत्र विवेकशालिनी। क्षमाभरं धारयता सुदुर्वहं, न कच्छपी सा किल कच्छपेन किम् ? // 52 // तिरश्ची निकृष्टयोनिः अज्ञप्रकृतिरपि सुपुत्रेण हेतुना बुधैः स्तुता प्रशंसिता अन्या विवेकशालिनी काचिन्मानुषी अत्रेदृशे विषये सुपुत्रसत्वे' परं स्तुतेति किं वक्तव्यमित्यर्थः का तिरश्ची स्तुतेति चेत्तत्राह-सुदुर्वहं वोढुमक्यं क्षमाभरं पृथ्वीभारं धारयता कच्छपेन पुत्रेण सा कच्छपमाता कच्छपी न किं. स्तुतेति ज्ञेयम् , अपि तु स्तुतैवेति / सुपुत्रो हि पितरौ स्तूयेते इति भावः, कूर्मः पृथिवीं पृष्ठे वहतींति पौराणिकाः / एवञ्च तीर्थेशमातुः स्तुतिरुचितैवेति भावः // 52 // महमितिअहं समालोक्य जिनेन्द्रमातरं, स्वमण्डलं पावयिताऽस्मि निर्भरम् / इतीव पूर्वाचलसानुमुन्नतं, रविः समारोहदनन्तरागभृत् // 53 // अहं सूर्यः जिनेन्द्रमातरमचिरां समालोक्य स्वमण्डलं स्वबिम्ब निर्भर-सुतरां पावयिताऽस्मि इति विचिन्त्येव रविः सूर्यः अनन्तं रागं प्रेम, उदयकालिकरक्ततां च बिभर्तीति सः तादृशः सन् उन्नतं पूर्वाचलस्य सानुं प्रस्थं समारोहत् / अन्योऽपि हि दूरस्थं वतु उच्चं वृक्षादारुह्य पश्यतीति भावः // 53 // परीति परिदृढमिमं गर्भस्थानं विचिन्त्य विचेष्टितैः, प्रमदकलिता द्यौरेषा दिग्वधूभिरनुद्रुता // उदयविसरत्सूर्योस्रालीकुसुम्भमहाम्बरा विहगविरुतव्याजेनोच्चैःस्वरा किल गायति // 54 // विचेष्टितैः बाह्यव्यापारैः इमं परिवृढम् प्रभु "प्रभुः परिवृढोऽधिपः" इत्यमरः गर्भे स्थानं स्थितिर्यस्य तं तादृशं गर्भस्थं विचिन्त्यानुमाय प्रमदकलिता हृष्टा एषा दृश्यमाना द्यौः दिशो वध्व इव ताभिरनुद्रुता सहिता नत्वेकिकैव, उदयेन विसरन्ती प्रसरन्ती सूर्यस्य किरणोस्रमयूखांशु' इत्यमरोक्तेः उस्राणां किरणानां माली श्रेणी एव कुसुम्भं कुसुम्भरक्तं महत् अम्बरं
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy