________________ श्रीशान्तिनाथमहाकाव्यम् चतुर्दशः सर्गः / विबुध्येतिविबुध्य विबुधेश्वरा अवधिरूपविज्ञानतः, स्वविष्टरविकम्पनप्रकृतिकारणादात्मनः / प्रमोश्च्यवनमादरात् समुपगत्य सर्वे तदा, दुरन्तदुरितक्षयप्रवणमेव चक्रुः स्तवम् // 48 // विबुधेश्वरा ! देवा ! अवधिरूपविज्ञानतः अवधिज्ञानतः स्वविष्टरस्य स्वासनस्य विकम्पनरूपात् प्रकृतिकारणात् प्रभोः मेघरथस्य आत्मनः जीवस्य भावितीर्थेशितुः च्यवनं विबुध्य ज्ञात्वा, तदा सर्वे देवा आदरादसमुपगत्य आगत्य दुरन्तानां दुष्परिणामानां दुरितानां पापानां क्षये प्रवणमुन्मुखम्, स्तवं स्तोत्रमेवं वक्ष्यमाणप्रकारेण चक्रुः // 48 // स्तवमेवाह अनुत्तरेतिअनुत्तरविमानकादपि विभो ! महोमण्डलं, समुन्नतमनुत्तरं त्वदधिवासतो मन्महे / तवात्र कथमन्यथाऽवतरणं यतः संभवेद्, दरिद्रसदने किमु द्विरदराजसंभावना ? // 49 // विभो ! त्वदधिवासतः त्वसन्निवासाद्धेतोः महीमण्डलम् अनुत्तरविमानकादपि अनुत्तरं श्रेष्ठतमं समुन्नतमुच्चं च मन्महे स्वीकुर्मः / अन्यथा बाधकमाह-यतः अन्यथा पृथिव्याः विमानादनुत्तरत्वाभावे अत्र पृथिव्यां तव अवतरणं कथं सम्भवेत् ? न सम्भवेदित्यर्थः / तत्र दृष्टान्तमाह-दरिद्रसदने द्विरदराजस्य गजराजस्य सम्भावना किमु ? नैवेत्यर्थः / तस्येभ्याश्रयत्वादिति भाव एवञ्च गजेनेभ्यत्वानुमानवत् त्वत्स्थित्या पृथिव्या अनुत्तरत्वं सिद्धयतीति // 49 // मतीतिमतिप्रमुखचित्त्रयीत्रिपथगातुषाराचल-प्रभ ! त्रिभुवनश्रियः कुलबलोपचारमियः / मनोभवमहोरगोपशमवैनतेयस्थिते ! प्रकाशितसदागमव्यवहृते ! चिरं तज्जय // 50 // मतिप्रमुखानां चितां ज्ञानानां त्रयी त्रयाणां मतिश्रुतावधीनां समाहार एव त्रिपथगा गङ्गा तस्याः तुषाराचलप्रभ ! हिमादितुल्य ! हिमवतः गङ्गायाः प्रभववत्ततो ज्ञानत्रयप्रवृत्तेरितिभावः / त्रिभुवनश्रियः सर्वलक्ष्म्याः कुलैः बलैरुपचारैश्च प्रिय ! सर्वलक्ष्मीसमन्वितेत्यर्थः / कुलीने बलवति व्यवहारपरौ च लक्ष्मीस्थितेरिति भावः / मनोभवः काम एव महोरगः महासर्पः तत्कृते वैनतेयस्य-गरुडस्य स्थितिरिव स्थितिर्यस्य तादृश ! कामजेतः ! प्रकाशिता सदागमस्य व्यवहृतिः व्यपदेशो येन स तादृशः ! आगमप्रवर्तक ! तवृथिव्यवताराद्धेतोः चिरं जय // 50 // इतीति इति जिनपतिं नुत्वा नत्वा जिनस्य च मातरं प्रमदनिचयपोल्लासैकप्रयोगनिबन्धनम् / दिविषदधिपा यात्रां नन्दीश्वरे विरचय्य च, प्रकृतमहिम स्वं स्वं धामाऽगन् महितद्धयः // 51 //