________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् त्नानि पास्यति रक्षिष्यति, ततोऽपि ततो हेतोश्च सा अचिरा चतुर्दश स्वप्नान् ददर्श, कथमन्यथा नोनाधिकं ददर्शेति भावः // 44 // खद्योतेतिखद्योतपोतप्रतिभाससन्निभो, यस्मिन् परिस्फूर्जति दृश्यते रविः / विष्वक्तमःस्तोमपरासनोत्कटः, कोऽपि प्रकाशः स महांस्तदाऽभवत् // 45 // तदा स्वप्नदर्शनान्तरम् यस्मिन् प्रकाशे परिस्फूर्जति विजृम्भमाणे सति, रविः सूर्यः खद्योतः कीटविशेषः तस्य पोतः शिशुः तस्य प्रतिभासः प्रकाशः तत्सन्निभः दृश्यते, यस्मिन् प्रकाशिते रविः खद्योतवत्प्रतिभाति इत्यर्थः विष्वक् समन्तात्, तमःस्तोमस्यान्धकारसमूहस्य परासने नाशने उत्कट उग्रः कोऽप्यनिर्वचनीयः महान् प्रकाशोऽभवत् // 45 // जगदितिजगत्त्रयोच्छ्वासविधानलालसः, क्षणस्तदा सौख्यमयो बभूव सः / सुधामयो नाम यथा सुधारुचि-यथैव विज्ञानमयोऽयमङ्गवान् // 46 // तदा अगत्त्रयस्य उच्छ्वासस्य उद्धर्षस्य विधानलालसः करणेच्छुरिव स स्वप्नावलोकनक्षणः सौख्यमयः सुखनिर्भरो बभूव। तत्र मालोपमामाह-यथा नाम सुधारुचिः सुधांशुः सुधामयोऽमृतात्मा यथैव चाङ्गवान् प्राणी शरीरी विज्ञानमयः ज्ञानात्मा, तथा इत्यर्थः / उपयोगलक्षणो जीव इत्युतेरिति भावः // 46 // देवीति देवी सोत्थाय तल्पात प्रमुदितहृदया मन्दमन्दं चलन्ती, __ गत्वा राज्ञः समीपं धृतकुसुमफला स्वप्नजातं जगाद। सोऽप्यूचे देवि ! पुत्रस्तव किल भविताऽसाम्यरूपः प्रकृत्या, श्रुत्वैवं तोषपूर्णा समुचितशकुनग्रन्थिमेषा बबन्ध // 47 // सा देवी अचिरा प्रमुदितहृदया सती, शुभस्वप्नदर्शनादितिभावः, तल्पात् शय्यात् उत्थाय मन्दमन्दं चलन्ती, गर्भप्रभावाद्वेति सौकुमार्यादिति भावः / राज्ञः विश्वसेनस्य समीपं गत्वा धृतकुसुमफला धृतानि कुसुमानि फलानि यया सा तादृशी निवेद्येत्यर्थः, रिक्तहस्तस्य फलप्रश्ननिषे धादिति भावः / स्वप्नजातं हृष्टं हृष्टानि चतुर्दश स्वप्नानि जगाद, सः विश्वसेनोऽप्यूचे किमित्याह-देवि ! तव किल निश्चयेन प्रकृत्या स्वभावेन असाम्यरूपः अनुपमरूपः असाधारणशील इत्यर्थः, पुत्रः भविता, एवमुक्तप्रकारं श्रुत्वा तोषपूर्णा नितरां तुष्टा एषा अचिरा समुचितां शकुनसूचिकां प्रन्थि वस्त्रग्रन्थि बबन्ध / तथाऽऽचारादिति भावः // 47 // शा. 3