________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / यस्मिन् विमाने तमोऽन्धकारं नैव प्रविशति तादृशम्, सततप्रकाशमयत्वादिति भावः तादृशत्वे हेतुगर्भ विशेषणमाह प्रतिरजनि प्रतिरात्रि, प्रभाकरमण्डलं, सूर्यमण्डलम् , आदायादाय पुनः पुनर्गृहीत्वा, अतएव रात्रौ सूर्यमण्डलं न दृश्यते इति भावः, विरिश्चिना ब्रह्मणा आहितम् निर्मितम् , सुखसमुदयान् सुखोपलब्धेहेतोः मुक्तेः संवावदूकम् दृष्टान्तरूपम् , अलं सुखं सातिशयसुखकरम् अनुत्तरम् प्रधानं विमानं व्योमयानं-"व्योमयानं विमानोऽस्त्री" इत्यमरः / वीक्षाञ्चके // 41 // अथरत्नस्तोमस्वप्नमाह इतरेति इतरभवने जानात्य न कश्चन मामकं कथमपि विदन् न स्वीकतुं दधाति समर्थताम् / इति जिनपतेः कर्तु सेवामिव प्रगुणीभवन्- .. महिमविधृतौ रत्नस्तोमं तदाननमाविशत् // 42 // इतरेषां धनिनां भवने गृहे मामकं रत्नसम्बन्धि अधैं मूल्यम्, 'मूल्ये पूजाविधावर्षः' इत्यमरः कश्चन कोऽपि न जानाति तत्त्वाज्ञानादिति भावः, यश्च कथमपि रत्नशात्राध्ययनादिना विदन् रत्नमूल्यवेत्ता स स्वीकतुं ग्रहीतुं समर्थताम् सामर्थ्य न दधाति तथाविधवित्तविरहादितिभावः, इति हेतोः निर्विष्णः महिमविधृतौ स्वमहत्त्वरक्षणे प्रगुणीभवत् साकाई रत्नस्तोमं जिनपतेः सेवां कर्तुमिव तस्याः अचिराया आननं मुखमाविशत् // 42 // अथ नधूमाऽग्निस्वप्नमाह ममेति मम तनुभवा धूमेनेदं जगन्मलिनीकृतं, त्रिभुवनगुरो ! त्वं तत् सर्व पवित्रय चित्रवाक् / इति जिनपतिं विज्ञीप्सुः किं जनेश्वरवल्लभा मुखविधुमयं निधृमोऽग्निविवेश विभास्वरः // 43 // त्रिभुवनगुरो ! जिनेश्वर ! मम अग्नेः तनुभुवा जन्येन धूमेन इदं जगत् मलिनीकृतं धूमलं कृतम् तत्ततः त्वं जिनेश्वरः चित्रवाक् वागतिशयसम्पन्नः सन् सर्वं जगत् पवित्रय मलरहितं कुरु ! इतीत्थं जिनपतिं विज्ञीप्सुः विज्ञपितुमिच्छुः सन् अयं निर्धूमः शुद्धः विभास्वरः ज्वलन्नाग्निर्जनेश्वरस्य विश्वसेननृपस्य वल्लभायाः मुखं विधुश्चन्द्र इव तं विवेश किमित्युत्प्रेक्षायाम् // 43 // अथचतुर्दशस्वप्ने हेतुमुत्प्रेक्षते यो ज्ञास्यते किल चतुर्दशरज्जुलोकं, विद्याश्चतुर्दश तथा च सुतस्तदीयः। रत्नानि पास्यति चतुर्दश दर्शनीयः, स्वप्नांश्चतुर्दश ददर्श च सा ततोऽपि // 44 // तदीयः अचिरायाः यः भावी सुतः पुत्रः चतर्दशरज्जुपरिमाणं लोकं भुवनं ज्ञास्यति किल, तथा चतुर्दशान्वीक्षिक्यादिविद्याश्च ज्ञास्यति, किञ्च दर्शनीयः मनोज्ञाकृतिः स चतुर्दशर