SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ 15 आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / साऽचिरा जलनिधिवत् आकण्ठं कण्ठपर्यन्तम् वेलापर्यन्तश्च मधुरैः जलैः परं सविशेषं पूर्णम् / जिनेश्वरविम्बवत् विकचानां पुष्पितानां सुमनसां पुष्पाणां मालाभिराकीर्णं व्याप्तम् , स्वर्नाथेनेन्द्रेण अमतोऽप्रे उपहृतमुपदीकृतं नवं विलक्षणं निधिमिव कनककलशं कल्याणाप्तौ कल्याणाप्तिनिमित्तं विलोकयति स्म // 38 // मथ पचाकरस्प्नमाह प्रतिनिधिमिवेति प्रतिनिधिमिव क्षीरोदस्याऽमृतैरमृतपभैविशदविशदैरपाल्यन्तं गतैः परिपूरितम् / पतगमिथुनै नारूपैरुपासितमाचितं विकसिततरैः पद्मः पद्माकरं च सकैक्षत // 39 // सका साऽचिरा, विशदविशदैः परमनिर्मलैः अत एव अमृतप्रभैः सुधासहोदरैः आपाल्यन्तं गले बटोर्वभागान्तं व्यासैः अमृतैः जलैः सुधाभिश्च “सलिलं कमलं जलम् पयः कीलालममृतमि" स्यामः // परिपूरितम, अत एव , क्षीरोदस्य प्रतिनिधिमिव स्थितम्, नानारूपैः अनेकाकारैः पनगमिधुनः पक्षिदन्ट्रैः उपासितं सेवितं विकसिततरैः पद्मराचितं व्याप्तं पद्माकरं सरोवरं चैक्षत // 39 // अथ समुद्र स्वप्नमाह प्रियतमेति - प्रियतमतया क्रोडक्रीडत्सुतोपलसंविदाऽवगणितमहारत्नज्योतिर्विभासितसैकतम् / पवनचलनोत्थास्नूर्मीणां सहस्रसमाकुलं, प्रमुदितमनाः पारावारं निभालयति स्म सा // 40 // साऽचिरा, प्रमुदितमनाः प्रहृष्टचित्ता सती, प्रियतमतयाऽतिप्रियतया क्रोडे उत्संङ्गे, मध्ये इत्यर्थः क्रीडन्तः तरङ्गवेगेनेतस्सतः सञ्चलन्तः सुताः पुत्रा इव ये उपला मणयः तेषां संविदा बुद्धया अगणितानि तिरस्कृतानि यानि महान्ति रत्नानि तेषां ज्योतिर्भिः विभासितानि सेकतानि वालकामयभूमयः यस्य तं तादृशम् मणिकनिष्ठरत्नप्रकाशितसैकतम् , पवनस्य चलनैः कृत्वा उत्थानस्नूनामुद्भवतामुशानामूर्मिणां तरङ्गानां सहस्रैः समाकुलं व्याप्तं पारावारं समुद्रं 'समुद्रोऽब्धिरकूपारः पारावारः सरिस्पतिः' इत्यमरः / निभालयति पश्यति स्म // 40 // ' अथ विमानस्वप्नमाह प्रविशतीति पविशति तमो यस्मिन्नैव प्रभाकरमण्डलं, प्रतिरजनि चाऽऽदायाऽऽदायाऽऽहितं च विरिञ्चिना / मुखसमुदयान्मुक्तेः संवावदकमलं सुखं, नृपतिदयिता वीक्षाञ्चक्रे विमानमनुत्तरम् // 41 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy