________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / नैव प्रभवति भवति, पराजितो हि निष्प्रभो जायते इति भावः इति हेतोः शशधरश्चन्द्रः तस्या अचिराया मुखे सिसेविषुः सेवितुमिच्छुः सन् विवेश. अन्योऽपि हि पराजितः जेतारं सेवते इति भावः / अतिशयोक्तिः // 35 // ____ अथ सूर्यस्वप्नमाह जयमित अयमपि विभुर्भव्यान् पद्माकरानिव भोत्स्यते, निजकमहसा सर्वानन्यान् प्रसह्य विजेष्यते / अहमिव जगच्चक्षुर्भावी भजाम्यमुमेव तत् , प्रथममिव तद्वक्त्रे भास्वानविक्षदवेक्षितुम् // 36 // अयं गर्भावतीणों विभुः प्रभुः अहमिव पद्माकरानिव भव्यान् प्राणिनः भोत्स्यते प्रबोधं दास्यति तथा निजकमहसा स्वतेजसा प्रसह्य बलादिव सर्वानन्यान् तेजस्विनो विजेष्यते अहमिवेति शेषः तथा, अहमिव जगतांचक्षुः यथावस्थितवस्तुप्रकाशकत्वाच्चक्षुरिव भावी भविष्यति तत्ततः अमुं गर्भावतीर्णमेव विभुं भजामि, इति हेतोः प्रथमं जन्मनः पूर्वमेवावेक्षितुं द्रष्टुमिव भास्वान् सूर्यः तस्या अचिराया वक्त्रे मुखेऽविक्षत्प्रविवेश // 36 // ... अथ ध्वजस्वप्नमाह गिरीति गिरिपदजुषो वंशस्याग्रेसरोऽहमिव प्रभुः, समधिकतरस्फूर्जत्मौढ्या सुपर्वकृतश्रियः / जगति भविता नानाकोटीश्वरालयभूषणं, स्वयमिति कृतस्वान्तस्तस्या विवेश मुखे ध्वजः // 37 // समधिकतरयाऽतिप्रचुरया स्फूर्जन्त्या विजृम्भमाणया प्रौढ्या प्रौटतया दृढतमा व सुपर्वभिः देवैः प्रन्थिविशेषैश्च कृतश्रियः विहितशोभस्य गिरिपदजुषः गिरिशब्दसमन्वितस्थ वंशस्य कुलस्य, अथ च गिरिवदुच्चस्य तृणध्वजस्य प्रभुः अहं ध्वज इवाग्रेसरः प्रधानं भक्तिा, जगतिध्वज इव, नानाकोटीनां अनेककोटिद्रव्याणां विविधश्रेणीनां चेश्वराणां नृपाणामालयस्य प्रसादस्य भूषणं, भविता इतीत्थं स्वयमेव कृतस्वान्तः कृतमतिः ध्वजः तस्या अचिराया मुखे विवेश // 37 // अथ कनककलशस्वप्नमाह जलनिधीति- - जलनिधिवदाकण्ठं पूर्ण जलैमधुरैः परं, विकचसुमनोमालाकीर्ण जिनेश्वरबिम्बवत् / उपहृतमिव स्वनाथेनाग्रतोऽपि निधिं नवं, कमककलशं कल्याणाप्तौ विलोकयति स्म सा // 38 // .