SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / समुदितजगत्सुभ्ररूपाभिमानविजित्वरी, प्रथमवदसौ देवी लक्ष्मीमवैक्षत विक्षताम् // 33 // निरवधेः निःसीम्नः महासौन्दर्यस्य एकस्यासाधारणस्य क्रियाणकस्य पण्यस्य हट्टिका पण्यवीथितुल्या, सुमानि पुष्पाणि शरा यस्य तस्य नृपस्वामिनः कामदेवनृपस्योद्बोधस्योद्दीपनस्य अक्षरस्य शब्दस्य अर्जुनपट्टिका धवलपत्ररूपा, समुदितानां मिलितानां जगतां सुभ्रुवां स्त्रीणाम् रूपाभिमानस्य सौन्दर्यगर्वस्य विजित्वरी जेत्री असौ देवी अचिरा प्रथमवत्पूर्ववत् विक्षतामविकलाम् , सर्वाङ्गमनोहराम, लक्ष्मीमवैक्षत , अत्र देवी विशेषणानि द्वितीयान्ततया लक्ष्मीविशेषणान्यपि सम्भवन्ति, तदेव चोचितं प्रतिभाति, स्वप्नवर्णनप्रस्तावे देवीवर्णनस्यानवसरग्रस्तत्वादिति सुधीभिरनुसन्धानीयम् // 33 // __अथ पुष्पमालास्वप्नमाह व्यजयतेति ब्यजयत पुरा माऽस्याः श्वासो मृदुत्वमिदं ततो, .. दधदतिशयं सर्वोत्कृष्टं पदौ शरणं श्रये / विविधकुसुमामोदाकृष्टप्रभूतमधुव्रता, सरससुमनोमाला तस्या इतीव मुखेऽविशत् // 34 // अस्या अचिराया श्वासः मा मां व्यजयत स्वपरिमलेन न्यूनामकरोत्, ततो हेतोः अतिशयमिदं दृश्यमानं मृदुत्वं कोमलत्वं दधत् सर्वोत्कृष्टं परमोत्तमं पदौ अचिरापादद्वयरूपं शरणं श्रये पराजितो हि शरणगो भवतीति भावः / इतीव उक्तप्रकारं विचिन्त्य इव विविधानां कुसुमानामामोदैः परिमलैः कृत्वा-आकृष्टा प्रभूताः बहवो मधुव्रता भ्रमरा यया सा तादृशी परिमललुब्धभ्रमरविराजिता सरसा समकरन्दा सुमनोमाला कुसुमस्रक् तस्या अचिराया मुखेऽविशत् / अत्र * 'पदौ श्रये इति बुद्धया मुखेऽविशदित्युक्तिः कथं सङ्गतिमेतीति सुधीभिरेव विभावनीयम् // 34 // __ अथ चन्द्रस्वप्नमाह वदनेति वदनकमलेनैतस्याः प्राग जितोऽस्मि यतो नभे, दिवससमये किञ्चिद् नैव प्रभा प्रभवत्यपि / अविकलकला मद्विभ्रत्याः कलाश्च चतुर्गुणा, इति शशधरस्तस्या वक्त्रे विवेश सिसेविषुः // 35 // मत् मत्तः मां चन्द्रमपेक्ष्येत्यर्थः, चतुर्गुणाः चतुष्षष्टिसङ्ख्याकाः चन्द्रस्य षोडशकलत्वात् गीतादिकलानाञ्च चतुष्षष्टिसङ्ख्यायास्त रुक्तत्वादिति भावः अविकलाः समग्राः कला अंशा यासां ताः सर्वाङ्गपूर्णा इत्यर्थः कलाः गीतनृत्यादिन् कान्तीश्च विभ्रत्या एतस्या अचिराया वदनकमलेन मुखेन यतः प्राग् जितोऽस्मि अतः नभे आकाशे दिवससमये दिने किञ्चिदपि प्रभा मम चन्द्रस्य
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy