________________ 12 श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / सा महादेवी अचिरा हिमगिरेः हिमालयस्य शिलायाः कायस्य स्वरूपस्य छाया-कान्तिरिव कान्तिर्यस्य तादृशं हिमधवलम्, अत एव मूर्तिमद् यशः किल, यश इव स्थितम् , शुभ-शुभमयैः अतिशुभैः चतुर्भिरशैः भागैरिव दन्तैः चतुभिर्दन्तैः अलङ्कृतम् तथा श्चोतता स्रवता दानाम्भसा मदजलेन सुरभिता सत्परिमलीकृता दिशः येन तादृशम् , तथा शुचिः धवलः सादी हस्तिपको यस्य तादृशं शुचिसादिशः मत्त्वर्थे शस् प्रत्ययः शक्रेभमैरावतम् वदनं कमलमिव तस्मिन् विशन्तमवैक्षत // 30 // शरदीति शरदिजशशिज्योत्स्नागौरं शुभं तनुतां गतं, किल वसुमतीं शृङ्गाग्राभ्यामुदच्य वहत्तमम् / ध्रुवमुपहृतं यानं स्वीयं द्वितीयमरुत्वता, तदनु वृषभं देव्यद्राक्षीद् दिवोऽप्यवतारिणम् // 31 // तदनु तत्पश्चाद् देवी अचिरा, शरदिजस्य शारदस्य शशिनः ज्योत्स्नेव गौरं धवलम् अत एव शुभ-“मङ्गलं-शुभम्" इत्यमरः / तनुतां कायत्वं गतं शृङ्गयोरग्राभ्यां कोटिभ्यामुदञ्च्य उत्तोल्य वसुमती पृथिवीं वहत्तमम् वहन्तम् द्वितीयमरुत्वता द्वितीयेन ईशानेन्द्रेण देवेन्द्रेण स्वीयं स्वकीयं यानं वाहनं ध्रुवमुपहृतमुपकृतमिव दिवः स्वर्गादवतारिणमवतरन्तं वृषभमद्राक्षीत् // 31 // अथ सिंहस्वप्रमाह वपुषीति वपुषि सितिमाऽद्वैतं स्फीतं वहन्तमकल्पितं, नयनकपिलज्योतिः पुजैविद्युततडित्प्रभम् / बलमदभृतो न्यक्कुर्वाणं रवैरपि दिग्गजान् , नयनपदवीमेणाधीशं ततो नयति स्म सा // 32 // ___ ततः तदनन्तरं सा अचिरादेवी, वपुषि शरीरे अकल्पितं स्वाभाविकं स्फीतं वृद्धिमत् सितिम्नः धावल्यस्याद्वैतमसाधारण्यं वहन्तम्, धारयन्तम्, नयनयोः कपिलानां पीतानां ज्योतिषां पुजैः विद्युता पराजिता तडितः विद्युतः प्रभा येन तं तादृशम् , रवैः स्वशब्दैः बलं मदश्च बिभ्रतीति तान् बलवतः मदमत्तांश्च दिग्गजान्-न्यक्कुर्वाणं पराजयन्तमेणाधीशं सिंहं नयनपदवीं नेत्रगोचर नयति स्म ददर्शेत्यर्थ. // 32 // अथलक्ष्मीदेवीस्वप्नमाह निरवधीति निरवधिमहासौन्दर्यैकक्रयाणकटिका, . सुमशरनृपस्वाम्योरोधाक्षरार्जुनपट्टिका /