SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ 1 आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् ___भोगान् सुखानि उपभुञ्जतोः प्रियतया प्रेम्णा अनुरक्तयोः परस्परमनुरागवतोस्तयोरचिराविश्वसेनयोः कियान् अनेहाः कालः जगाम व्यतीयाय, बुधाः परस्परस्य प्रेम्णा विना रहितं कृत जायाश्च पतिश्च जम्पती तयोः सङ्गमं वृथा निःसारं न विदुः किम् ? अपि तु विदुरेव तयोस्तु सप्रेमसङ्गमः सार्थक एवेति भावः // 27 // अथाचिराया गर्भधारणमाह जन्तुरिति जन्तुर्मेघरथस्य सोऽथ निखिलं स्वायुः प्रपूर्य त्रयस्त्रिंशसिन्धुमितं विमानकलितस्तस्माद् विमानाच्च्युतः / मासो भाद्रपदस्य सप्तमतिथौ कृष्णे भरण्यां विधौ, तस्याः कुक्षिमभूषयत् त्रिभुवनस्याभूषणाया विभुः // 28 // अथानन्तरम् स पूर्ववर्णितः विभुः जगत्पतिः मेघरथस्य जन्तु वः विमानकलितः सर्वार्थसिद्धविमानस्थितः सन् त्रयस्त्रिंशत्सिन्धुमितं त्रयस्त्रिंशत्सागरोपमप्रमाणं निखिलं सम्पूर्णमेव स्वायुः प्रसूर्य समाप्य, भाद्रपदस्य मासः मासस्य कृष्णे कृष्णपक्षे सप्तम्यां तिथौ भरण्यां तदाख्यनक्षत्रे विधौ चन्द्रे अनुकूले सति त्रिभुवनस्य आभूषणायाः मण्डयित्र्याः तस्याः अचिरायाः कुक्षिं गर्भमभूषयत् अचिरागर्भस्थो जात इत्यर्थः-॥२८॥ जात्येति जात्याष्टापदवासवेश्मनि तदा मुक्तावितानोज्ज्वले, सा कृष्णागुरुसारधूपसुरभौ चित्रविचित्रः श्रिते / निद्रामुद्रितलोचनाम्बुजयुगा किञ्चित्महृष्टा महा देवीसौस्थ्यभृता चतुर्दशमास्वप्नानिमानैक्षत // 29 // तदा मेघरथजीवस्य गर्भावतारसमये जात्यस्य विशुद्धस्याष्टापदस्य सुवर्णस्य वासवेश्मनि वासगृहे मुक्तानां वितानेन चन्द्रातपेनोज्ज्वले कृष्णागुरुसारधूपेन सुरभौ सपरिमले विचित्रैः नैकप्रकारैर तैर्वा चित्रैरालेख्यैः श्रिते समन्विते जात्याष्टापदवासवेश्मनि निद्रया मुद्रितं लोचनाम्बुजयुगं नेत्रकमलद्वयं यस्याः सा तादृशी सुप्तेत्यर्थः सौस्थ्यभृता सुस्थिता सा महादेवी अचिरा किञ्चित्प्रहृष्टा ईषत्प्रबुद्धा सती इमान् वक्ष्यमाणान् चतुर्दशमहास्वप्नान् ऐक्षत ददर्श।।२९॥ ___ अथ स्वामानेव वर्णयति-तत्र प्रथममैरावतहस्तिदर्शनमाह हिमगिरिति हिमगिरिशिलाकायच्छायं यशः किल मूर्तिमत्, शुभशुभमयैरंशैर्दन्तैश्चतुर्भिरलङ्कृतम् / सुरभितदिशं श्चोतदानाम्भसा शुचिसादिशो, वदनकमले सा शक्रेभं विशन्तमवैक्षत // 30 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy