________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / यस्या अचिराया आस्यं मुखम् पौर्णमास्याः सुधांशुं पूर्णचन्द्रमित्यर्थः / सुतरामत्यमन्तं हसति, निष्कलङ्को हि कलङ्किन हसत्येवेति भावः / ननु कुत एतत्त्वया ज्ञातमिति चेत्तत्राहतेन तद्धासहेतुनैवायं चन्द्रः इतः पूर्णिमाऽनन्तरं प्रतिपदं पदे पदे, प्रतिपत्तिथरारभ्य वा क्षीयमाणः प्रेक्ष्यते, कृष्णे चन्द्रकलानां क्रमशः क्षयादिति भावः / स च क्षय उचित एवेत्याह-आलोकाय प्रकृतिमहसा प्रकाशाय स्वाभाविकतेजसा सर्वथा व्यावृतानां रहितानां परेणान्येन निर्जितानां तिरस्कृतानां महतां जगति एतत्क्रमशः क्षयः युक्तञ्चोचितमेव, पराजितो महान् प्रकाशशीलस्वाभाविकतेजसा हीयते क्षीयते च स्वयमपीति लोकसिद्धमेवेति भावः / अत्रातिशयोक्तिमूलार्थान्तरन्यासः // 24 // आस्थानीति आस्थानी रूपलक्ष्म्या भुवनविजयिनो राजधानी स्मरस्य, क्रीडास्थानं गुणानां शरदिजशशिनः कौमुदीसन्निभानाम् / सौन्दर्यस्येकपात्रं निरुपममहिमा वज्रवज्राकरोवीं, पौलोमी या द्वितीयाऽवनिभुवनगता वेधसाऽसर्जि नूनम् // 25 // या अचिरा वेधसा ब्रह्मणा रूपलक्ष्म्या आकृतिश्रियः आस्थानी आस्पदम्, भुवनविजयिनः स्मरस्य कामदेवस्य राजधानी तद्रूपा शरदिजस्य शरतोः सम्बन्धिनः शशिनः चन्द्रस्य कौमुदीसन्निभानां. चन्द्रिकातुल्यानामत्युज्ज्वलानां गुणानां दयादाक्षिण्यादीनां क्रीडास्थानम्, सौन्दर्यस्य एकं मुख्य पात्रम्, निरुपमः महिमा एवं वज्रं तस्य वज्राकरोवीं वज्राकरभूः तद्रूपा अवनिभुवनं मर्त्यलोकम् गता द्वितीया अपरा पौलोमीन्द्राणी असर्जि निर्मिता, नूनम् ध्रुवम् // उत्प्रेक्षाsलङ्कारः // 25 // दिवेति दिवा वियोगः प्रथितश्चकोरयो-स्तथा निशायामपि चक्रवाकयोः। अतो न ताभ्यामुचिता समानता, तयोरजस्रं सुखसिन्धुमग्नयोः // 26 // चकोरयोः पक्षिविशेषयोः स्त्रीपुंसयोः दिवा दिवसे वियोगः प्रथितः ख्यातः तथा चक्रवाकयोरपि निशायां वियोगः प्रथितः अतः अजस्रं दिवानिशं सुखसिन्धौ मग्नयोः वियोगाभावादिति भावः / तयोः अचिराविश्वसेनयोः ताभ्यां चकोरचक्रवाकाभ्यां समानतोपमा, न उचिता, साम्यस्यैवाभावादिति भावः // व्यतिरेकः // 26 // जगामेति जगाम भोगानुपभुञ्जतोस्तयोः, कियाननेहाः प्रियतानुरक्तयोः / परस्परप्रेम विना कृतं बुधा, विदुर्न किं जम्पतिसङ्गमं वृथा ? // 27 //