________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / विश्राण इति विश्राणोऽप्यास्यविवरगता द्वे सहस्रे रसज्ञा, यच्छेषो यं द्विरसनपतिः स्तोतुमेवामभुष्णुः / शौर्यौदार्यादिकगुणगणं यस्य विश्वप्रसिद्धं, तस्थौ तेनावनितलमरं लज्जयैव प्रविश्य // 21 // (अष्टभिः कुलकम्) आस्यं विवरमिव मुखान्तः गताः स्थिताः द्वे सहने सहस्रद्वयसंख्याकाः रसज्ञाः जिह्वाः विश्राणः धारयन्नपि सहस्रशीर्षत्वाद् द्विजिह्वत्वाच्चेति भावः, द्विरसनानां भुजगानां पतिः शेषः शेषनागः यस्य विश्वसेनस्य विश्वस्मिन् प्रसिद्धं ख्यातं, यं शौर्योदार्यादिकगुणगणं स्तोतुं वर्णयितुमेव यद्यतोऽप्रभविष्णुरसमर्थो जातः गुणानामानन्त्यात्स्तुतिसाधनरसज्ञानां च परिमितत्त्वादिति भावः, तेन हेतुना एव लज्जया विशिष्टसाधनसत्त्वेऽपि कार्यापटुत्वजन्यया इव अरं शीघ्रम् अवनितलं पातालं प्रविश्य तस्थौ, लज्जितो हि आत्मानं गोपायतीति भावः // उत्प्रेक्षा // 21 // अथतद्भार्यामाह - * महाशया तन्महिषी महाशयाऽचिराभिधाना चिरपुण्यसंचया / - बभूव कान्तेन महेशपार्वती, प्रपञ्चितपीतिमुदाजहार या // 22 // महेति-महाशया उदारा चिरं पुण्यस्य संचयो यस्याः सा तादृशी पुण्यातिशयवती अचिरेत्यभिधानं यस्याः सा तादृशी अचिरानाम्नी तस्य विश्वसेनस्य महिषी पट्टराज्ञी बभूव, या अचिरा कान्तेन कृत्वा महेशपार्वतीभ्यां प्रपञ्चितां विस्तारितां प्रीतिमुदाजहार // 22 // विलोक्येति विलोक्य लोकोत्तरमेव रोहणी, यदग्र्यसौभाग्यमभङ्गरं तपः / ____ चकार सौभाग्यकृते नु रोहिणी तपः प्रसिद्धं तदिदं जिनागमे // 23 // यस्या अचिरायाः अग्र्यमुत्तमं सौभाग्यम् अभङ्गुरं स्थिरं तपश्च लोकोत्तरं लोकदुर्लभ विलोक्य एव रोहिणी सौभाग्यकृते निजसौभाग्याथ रोहिणीत्यभिधेयं तपः चकार नु कृतवतीव, ततो हेतोः इदं तपः जिनागमे प्रसिद्धम् रोहिणीतपोऽभिधयाख्यातम् , उत्प्रेक्षामूलाऽतिशयोक्तिः // 23 // आस्यमिति आस्यं यस्या हसति सुतरां पौर्णमास्याः सुधांशुं, तेनैवायं प्रतिपदमितः प्रेक्ष्यते क्षीयमाणः / आलोकाय प्रकृतिमहसा सवेथा व्यासताना, युक्तं चैतज्जगति महतां निर्जितानां परेण // 24 //