________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः। यः राजा नृपः चन्द्रश्च ‘राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोरि" ति विश्वः / करैः भागधेयैः बलिभिः राजग्राह्यभागैरिति यावत् अथ च किरणैः "कृत्वा, बलिहस्तांशवः कराः, भागधेयो बलिः कर" इति चामरः / पद्मानां लक्ष्मीनामाकराः तेषाम् धनिनां नृपाणामित्यर्थः / अथ च पद्मसमूहानाम्, कोशनिचयम् , वित्तनिधिम् अथ च बीजकोषम्, सङ्कोचयति स्म न्यूनं करोति स्म, अथ च मुद्रितं करोति स्म, नृपः करग्रहणेन कृत्वा प्रतिपक्षनृपकोशं सङ्कोचयति, चन्द्रश्च स्वकिरणेन पद्मं मुद्रयति इति भावः / तथा य नृपः चन्द्रश्च सर्वत्र कलङ्कोऽनय एव पङ्कस्तस्य कलनान्नीत्या दूरीकरणाद्धेतोः अथ च कलङ्कः लाञ्छनं तदेव पङ्कः तस्य कलनाद्धारणाद्वेतोः, दोषं पापं न करोतीति स दोषाकरः निर्दुष्टः, अथ च दोषस्य आकरः दोषां रात्रिं करोतीति वा स तादृशः विश्रुतः ख्यातः कलावान् चतुषष्टिकलाज्ञः, अथ च षोडशकलः अपि अयं स राजा नृपश्चन्द्रश्च, स्फूर्जद्गुणानि प्रकटगणानि रत्नानि यस्मिन् स तादृशः रत्नगिरिः मेरुः येन स तादृशश्चन्द्रः तेन चन्द्रप्रकाशेन मेरुरत्नप्रकाशनादिति भावः / अथ च स्फूर्जन्तः गुणाः रत्नानीव तेषां रत्नगिरिरिव स तेन, नक्षत्राणां लक्ष्मी करोतीति तेन, चन्द्रे सत्येव नक्षत्राणां, प्रकाशनादिति भावः, अथ च न क्षत्राः क्षत्रियास्ते नक्षत्राः ब्राह्मणादयः, तेषां लक्ष्मी दानादिना समृद्धिं करोतीति सः तेन. क्षत्रियाणां तु लक्ष्मीहरणमेव करोतीति भावः / येन नृपेण चन्द्रेण वा समं सह साम्यं तुल्यतां समाश्रयत् अत्र राजपदेन नृपग्रहणे येनेति चन्द्रग्रहणम्. अन्यथा त्वन्यथेति बोध्यम्, अत एवोभयाश्रयेण व्याख्यातं मया, अत्र श्लेषमूलोपमाऽलङ्कारः // 19 // न्याय इति न्यायः संश्रित एक एव भुवने पुष्णाति कीर्ति परां, संबद्धः स विसर्जनेन सह चेत् स्वर्णस्य तत् सौरभम् तद् द्वैतं विनयेन भूषयति वा लोकोत्तरः कश्चनेत्येतद्वैदुषवाक्यसंप्रवणतो येनाऽऽदृतं तत्त्रयम् // 20 // येन विश्वसेननृपेण एकः न्यायः नीतिरेव संश्रितः सन् भुवने परामुत्कृष्टां कीर्ति पुष्णाति नीत्या कीर्तिर्लभ्यत इति भावः / सन्यायः विसर्जनेन दानमुत्सर्जने विसर्जने इत्यमरोक्तेः तद् द्वैत विनयेन सह दानेन सह चेत्सम्बद्धः, तन्न्यायदानयोः सम्बन्धः स्वर्णस्य सौरभं सौगन्ध्यमिव, जायते इति शेषः / तद् द्वैतं न्यायदानद्वयं लोकोत्तरः अलौकिकगुणयुक्तः कश्चन विरल एव विनयेन भूषयति, वा. नीतिमत्त्व-दातृत्व-विनयवत्वानामेकत्र स्थितिरतिदुर्लभेति भावः, इत्येतदुक्तप्रकारस्य वैदुषवाक्यस्य विद्वद्वचसः संश्रवणतः श्रवणात्तेषां न्यायदानविनयानां त्रयमादृतं स्वीकृतम् , स विश्वसेनः नीतिमान् दाता विनयी चासीदित्यर्थः // 20 //