________________ mmmmmmm आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् मन्यन्ते शत्रयः इति भावः / विहस्ततां व्याकुलत्वं नावाप जीविताः शत्रवः पश्चादपकरिष्यन्तीति चिन्ता न गतः अनुत्तमप्रतापशालित्वादितिभावः / एतेन नृपस्य महाशयत्वं दयावत्वं च सूचितम् // 16 // विनिरिति-- विनिर्जितः शारदसारचन्द्रमा, विसत्वरैर्यस्य यशोभिरुज्ज्वलैः / दधौ हृदन्तर्यदशर्म तत् परं, कलङ्करूपं कविभिर्विवर्ण्यते // 17 // यस्य नृपस्य विश्वसेनस्य उज्ज्वलैः धवलैः विसृत्वरैः दिक्षु प्रसरणशीलैः यशोभिः विनिर्जितः निष्प्रभीकृतः शारदः शरदृतुभवः सारः सम्पूर्णत्वाद् दृढः चन्द्रमाः हृदन्तः मनसि यदशर्म पराजयजन्यं दुःखं दधौ, तत् परमुत्कृष्टं तदेव कविभिः कलङ्करूपं विवर्ण्यते, न तु चन्द्रकलङ्कोऽन्यः पदार्थः इति भावः अतिशयोक्तिरलङ्कारः // तेन च तद्यशः चन्द्राधिकमुज्ज्वलं दिग्व्यापि चेति व्यतिरेको ध्वन्यते इत्यलङ्कारेणालङ्कारध्वनिः // 17 // य इति.यस्तापं तनुते समाश्रयति यस्तां वारुणी रागवान्, द्वेषं यः कविना सह प्रकुरुते ख्यातेन काव्याख्यया / आलोकप्रकटीकृताखिलजगत् सामान्यमप्यास्थितो नायं येन समानतामकलयत् सूरः स भास्वानपि // 18 // यः सूर्यः तापमातपं दुःखं च तनुते करोति, अथ रागवान् विषयेच्छुः सन् तथा च रक्तः वारुणी पंश्चिमां दिशमथ च मदिरां समाश्रयति–“सुरा प्रत्यक्च, वारुणी" इत्यमरः तथा यः सूर्यः काव्यः शुक्रः इत्याख्यया ख्यातेन कविना शुक्रेण सह द्वेषं प्रकुरुते- 'शुक्रो दैत्यगुरुः काव्य उशना भार्गवः कविः' इत्यमरः / सूर्यः स्वकरैस्तापं कुरुते रक्तवर्णश्च पश्चिमायामस्तमेति, शुक्रश्च सूर्यसमीपस्थोऽस्तमेतीति तयोयोद्वेर्ष इति दैवज्ञाः इति भावः / भास्वान् प्रभावान्, अत एव आलोकेन प्रकाशेन प्रकटीकृतम् प्रकाशितमखिलं जगधेन स तादृशः सोऽयं सूरोऽपि सूर्योऽपि सामान्यं तुल्यतामास्थितः कर्तुमुद्युक्तोऽपि जगत्प्रकाशकत्वधर्मेण तौल्याय कृतप्रयत्नोऽपीत्यर्थः येन विश्वसेननृपेण सह समानता नाकलयद्दधौ, यतो नृपः न तापकारी न वा वारुणीं श्रितः न च कविदेषीति भावः अत्र श्लेषमूलो व्यतिरेकालङ्कारः // 17 // ___य इति यः संकोचयति स्म कोशनिचयं पद्माकराणां करैयः सर्वत्र कलङ्कपङ्ककलनाद् दोषाकरो विश्रुतः / स स्फूर्जद्गुणरत्नरत्नगिरिणा नक्षत्रलक्ष्मीकृता, साम्यं येन समं समाश्रयदयं राजा कलावानपि // 19 //