________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / सुखस्य जनके हस्तिनापुरे सत्यपीत्यर्थः / अमी बुधा विद्वांसः यत् किञ्चिदल्पं नश्वरमनित्यमेवं सावधिकं च यत्सौख्यं तेन ललितामभिलषणीयकल्पाम् पुण्याभिः पुण्यजनकाभिः क्रियाभिः चरित्रक्रियाभिः वर्जिताम् अमूं निकृष्टाममरावतीं पुरं देवनगरी वर्णयन्ते प्रशंसन्ति, स तद्वर्णनप्रसङ्गः प्रायो बाहुल्येन तेषां बुधानां कदाग्रहः निमित्ताभावेऽपि वर्णनीयमेव मयेति दुराग्रहः, व्यसनिता, यस्य कस्यापि वर्णनेऽविचार्यैव वर्णनप्रवृत्तिरूपोऽभ्यासो वा, वा किं यद्वा अविवेकात्मता तारतम्यस्य भेदेन ग्रहाऽसामर्थ्य वा किं कथमन्यथोत्कृष्टे हस्तिनापुरे सत्यपि अमरावती वर्णयन्तीति भावः / अत्र व्यतिरेकमूलकबुधोपालम्भातिशयोक्तिः // 13 / . सेति स तत्र भूमिपतितारतारक-प्रभासमद्योतनतारकप्रभुः / समग्रदिग्व्यापकविश्वसैन्यको, बभूव भूवल्लभविश्वसेनकः // 14 // तत्र हस्तिनापुरे स प्रसिद्धः भूमिपतयः ताराणि उच्चानि तारकाणि नक्षत्राणीव-तेषां प्रभाभिः समं द्योतनः प्रकाशकः तारकप्रभुः चन्द्र इव, समग्रासु दिक्षु व्यापकं विश्वं सर्व सैन्यं यस्य स तादशः सैन्यवशीकृतसर्वादिक्कः भूवल्लभः नृपः विश्वसेनकः विश्वसेनाख्यः बभूव // 14 // विभूषित इति विभूषितो भृतिभिरात्मना विभुर्बिभर्ति यां मूर्ध्नि ललाटलोचनः / यदग्रतो देवसरस्वती जलं, वहत्युपान्तस्थितिमास्थितैव. सा // 15 // . विभुः प्रभुः ललाटे लोचनं तृतीयनेत्रं यस्य स तादृशः शिवः भूतिभिः भस्मभिः ऐश्वर्यैश्च विभूषितः सन् आत्मना स्वयमेव यां गङ्गां मूर्ध्नि मस्तकोपरि बिभर्ति धारयति, शिवस्य गङ्गाधरत्वं प्रसिद्धमेवेति भावः / सा तादृशी, तादृशमहामहिमशिवपूजिताऽपि देवसरस्वती गङ्गा यस्य नृपस्याग्रतः जलं वहतीति, नदीरूपत्वादिति भावः, जलहारिणी वेति ध्वनिः, उपान्ते समीपे स्थितिमास्थिता एव समीप एव तस्थौ इत्यर्थः / हस्तिनापुरसमीपे गङ्गा वहति, तत्र नृपजलधारिणीत्वातिशयोक्तिः // 15 // चतुरिति चतुर्भुजत्वं स्ववशश्रियाऽऽश्रयन् , भुजं-ददद् दक्षिणमात्मनो द्विषाम् / पुनः स्वजन्मपतिपत्तिमानिना-मवाप यो न स्वरसाद् विहस्तताम् // 16 // यः विश्वसेन नृपः स्ववशा या श्रीः तया कृत्वा चतुर्भुजत्वं विष्णुत्वमाश्रयन् , विष्णोर्हि लक्ष्मीर्वशेति भावः, स्वरसात् कृपावशतः पुनः स्वजन्मनः प्रतिपत्तिं प्राप्ति मन्यन्ते इति तेषामात्मनः स्वस्य द्विषां शत्रणां दक्षिण भुजं दददभयदानं दददित्यर्थः अनेन दत्तामयदानेन स्वपुनर्जन्मैव