________________ आo श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / न बभूव किं ? किन्तु ध्रुवं बभूवैव, कथमन्यथा संयमिनीति तस्या नाम, संयमेन, पराभवो नश्यतीति भावः अत्र व्यतिरेकाऽनुप्राणितातिशयोक्तिः // 10 // भवन्निति-- भवन् स यस्याः किल पारदारिकः, पतिर्न सौन्दर्यकलामलीलवत् / अनीदृशं रज्जयता स्वनायक, न येन लङ्का समतामुपैति सा // 11 // यस्याः लङ्कायाः पतिः रावणः परदारेषु प्रवर्त्तते इति स तादृशः पारदारिकः परस्त्रीलम्पटः भवन् सीतायास्तेन हरणादिति भावः किलेल्यैबैतिह्ये सौन्दर्य कलां सौन्दर्यांशमलीलवत् लुनाति स्म यदि हि सा लङ्का सुन्दरी किन्तर्हि तत्पतिः पारदारिकोऽभवदिति न सा सुन्दरीति भावः, अनीह शमपारदारिकम् पुण्यबुद्धिम् स्वनायकं रञ्जयता स्वसौन्दर्येणानुकलयतो येन हस्तिनापुरेण सा लङ्का समतां तुल्यतो नोपैति / व्यतिरेकालङ्कारः // 11 // भोगेति भोगावत्यपि भोगिनामपि कुलै रत्नांशुभिर्भासुरैः, संरुद्धापि न येन सामधिकं स्पधी विधातुं क्षमा / सर्वानेव दुरात्मनो द्विरसनान्निस्य लक्ष्मीश्रिता, पातालं विशति स्म तद्विरसनाधिष्ठानपापादिव // 12 // येन हस्तिनापुरेण साधू भोगिनां सर्पाणाम् अथ च सुखैश्वर्यादिमताम् कुलैः समूहैः भासुरैः भास्वरैः रत्नांशुभिरपि संरुद्धाऽपि भोगावती पातालस्थतदाख्यनगर्यपि समन्विताऽपि अधिकं स्पर्धा विधातुं न क्षमा, सती सर्वानेव दुरात्मनः दुराशयान् द्विरसनात् सर्पान् पिशुनांश्च निर्वास्य दूरं निःसार्य लक्ष्मीश्रिता श्रीसमन्विता सत्यपि तेषां निर्वासितानां द्विरसनानां सर्पाणां पिशुनानां च अधिष्ठानस्य स्वस्मिन् निवासस्य पापादिव पापभवात् प्रभावादिव पातालं विशति स्म, पापिनामधःपातो भवतीति भावः / अत्रातिशयोक्त्यनुप्राणितो व्यतिरेकाऽलङ्कारः // 12 // प्राय इति प्रायोऽमी अमरावतीं पुरममं यद् वर्णयन्ते बुधाः किं तेषां स कदाग्रहो व्यसनिता यद्वाऽविवेकात्मता / यस्मिन् सत्यपि धर्मशर्मजनके सत्कर्मनित्योत्सवे किञ्चिन्नश्वरमेयसौख्यललितां पुण्यक्रियावर्जिताम् ? // 13 // ___ (षड्भिः कुलकम्) यस्मिन् हस्तिनापुरे धर्मस्य शर्मणः सुखस्य च जनके, तत्र हेतुगर्भ विशेषणमाह सन्ति कर्माणि सदाचरणानि सदनुष्टानानि च नित्यमुत्सवश्च यस्मिन् तादृशे, सत्कर्मणा धर्मस्योत्सवेन च