________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / तयोः शोभनत्वस्य महत्त्वस्य चाभावान्नान्वर्थत्वमित्यर्थः / हूणं तदाख्यदेशमपि भ्रणे गर्भ निविष्टमेव 'गर्भो भ्रूण' इत्यमरः / गर्भनिविष्टवत्कुरुमपेक्ष्याजातकल्पमेव, लेशतोऽपि, कुरुसादृश्याभावादिति भावः / अत्रापि पूर्ववद् व्यतिरेकः // 7 // तदिति तदस्ति तस्मिन्नुरु हस्तिनापुरं, पुरं सुराणामिव वासवा सितम् कवेर्बुधस्यापि गुरोश्च केवलं, विरोधिता यत्र मिथो न दृश्यते // 8 // तस्मिन् कुरुदेशे उरु विशालं हस्तिनापुरमस्ति, तत्पुरम्, सुराणां देवानां वासेन निवासेन वासितं ख्यातं यद्वा बासवेनेन्द्रेणासितमधिश्रितं सुराणां पुरममरावतीवास्ति, साम्यस्य भेदाऽविना भावित्वात्तयोर्भेदमाह-केवलं यत्र हस्तिनापुरे कवेः काव्यकर्तुः, अथ च शुक्रस्य बुधस्य विदुषः अथ च, तदाख्यग्रहविशेषस्य गुरोः कलाचार्यादेः अथ च बृहस्पतेरपि च मिथः परस्परं विरोधिता विरोधो न दृश्यते, सुरपुरे तु तेषां विरोध इत्यतो द्वयोर्भेद इति भावः विरोधभावाभावाभ्यां न्यूनाधिक्ययोरुपक्षिप्तत्वाव्यतिरेकाऽलङ्कारः // 8 // रसैरिति रसैरनन्तैः परिपूरितान्तरा, विकाशिपङ्केरुहदीर्घलोचनाः / विभान्ति यस्मिन् द्विजराजराजिता, बहिः सरस्यो ललनाश्च मध्यतः॥९॥ यस्मिन् हस्तिनापुरे अनन्तैरपरिमेयैः रसैः शृङ्गारादिरसैः रागैर्वा, जलैश्च परिपूरितमन्तरं मनः मध्यभागश्च येषां तास्तादृशाः तथा विकाशीनि पङ्केरुहाणि कमलान्येव दीर्घाणि लोचनानि यासां तास्तादृश्यः, तथा विकाशिपङ्केरुहाणीव दीर्घाणि लोचनानि यासां तास्तादृश्यः तथा द्विजराजैः पक्षिभिः, अथ च विप्रश्रेष्टैः राजिताः शोभिताः, "दन्तविप्राण्डजा द्विजाः" इत्यमरः / बहिः बहिःप्रदेशे सरस्यः तडागाः मध्यतोऽन्तःप्रदेशे च ललनाः स्त्रियो विभान्ति "तडागोऽस्त्रि कासारः सरसी सरः" इत्यमरः / अत्र द्वयोः प्रकृतयोः सरसीललनयो रसायेकधर्माभिसम्बन्धात्तुल्ययोगिताऽलङ्कारः स च रूपकाऽनुप्राणित इति सङ्करः // 9 // नेति-- न धर्मराजस्य पुरी पराभवं, निजश्रिया येन सलीलमापिता / . पुनस्तिरस्कारपदानवाप्तये, ध्रुवं न किं संयमिनी बभूव सा ? // 10 // येन हस्तिनापुरेण सलीलमनायासेनैव निजश्रिया निजसम्पदा कृत्वा धर्मराजस्य यमस्य पुरी नगरी संयमिन्याख्यपुरी पराभवं न्यूनतारूपं न आपिता ? अपितु प्रापितैव, ननु कुत एतदित्यत आह-सा धर्मराजपुरी पुनः भूयोऽपि तिरस्कारपदानवाप्तयेऽपराभवाय संयमिनी संयमवती