SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् / यत्र कुरुदेशे गोष्ठाः गोशालाः गोभिः अभितः सर्वतः नीरैः जलैः तडागा इव पूर्णाः विभान्ति, तथा यत्र कुरुदेशे ग्रामाः गोष्ठकुलैः गोशालासमूहैः पद्मः कमलैः नीराणि जलानीव नितरामत्यन्तं विभान्ति यत्र कुरुदेशे पुराणि नगराणि ग्रामैः पार्श्वस्थितैः कृत्वा भृङ्गैः भ्रमरैः पद्मानीव निर्भरतरं सातिशयं विभान्ति श्रीः पुरादिशोभा च पुरैः नगरैः कृत्वा अन्योन्यस्पर्धया विवृद्धैः अधिकमुच्चरितैः हुंकृतिभरैः गुञ्जारवैः भृङ्गा इव विभान्ति / अत्र परं परं प्रति पूर्वपूर्वस्य विशेषेणत्वेन स्थापनादेकावल्यलङ्कारः // 5 // वत्सेति वत्सो वत्सलभावमाश्रयति नो संवर्ण्यमानः सतां, नाङ्गः किश्चन चङ्गिमानमधिकं पुष्णाति तृष्णावहः / धत्ते मालवसत्त्वमेव सुतरां नो मालवस्तत्त्वतो, लाटश्चाटवपाटवं न तनुते यस्मिन् समालोकिते // 6 // यस्मिन् कुरुदेशे समालोकिते दृष्टे सति संवर्ण्यमानः स्तूयमानः वत्सः तदाख्यो देशः सतां तज्ज्ञानां वत्सलभावं प्रीतिपात्रतां नाश्रयति कुरोर्वत्सादप्यधिकत्वादिति भावः तृष्णावहः औत्सुक्यापादकः अङ्गः तदाख्यदेशोऽपि किञ्चन किमपि अधिकं चङ्गिमानम् सौन्दर्याधिक्यं न पुष्णाति, कुरोरङ्गादप्यधिकसुन्दरत्वादिति भावः / तथा मालवः तदाख्यदेशः तत्त्वतोऽर्थतः सुतरामत्यन्तमेव माया लक्ष्म्याः लवस्याल्पांशस्याऽपि सत्त्वं न धत्ते, कुरोरपेक्षया मालवो नितरां निःश्रीक इति तस्य नान्वर्थ नामेति भावः / तथा लाटः तदाख्यदेशः चाटवस्य श्लाघायाः पाटवं योग्यता न तनुते, ततोऽपि कुरोरेव श्लाध्यत्वादिति भावः, अत्रोपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकः // 6 // देशमिति देशं गुर्जरमेव जर्जरतमं प्राज्ञाः समाचक्षते, कर्णाटं न च कर्णगोचरगतं पीडाकरं कर्णयोः। वैय्यर्थ्यं सुमहापदोपपदयोर्नाम्नोः पुना राष्ट्रयोहूंणं भ्रूणनिविष्टमेव कमलालीलागृहं वीक्ष्य यम् // 7 // (पइभिः कुलकम्) कमलायाः लष्म्याः लीलागृहमिव क्रीडागृहतुल्यं कुरुदेशं वीक्ष्य प्राज्ञाः गूर्जरं तदाख्यं देशं जर्जरतममतिर्णिमेव समाचक्षते वर्णयन्ति कुरुवल्लावण्यविरहादिति भावः / कर्णगोचर-. गतं श्रुतं सत् कर्णयोः पीडाकरमपि यम् श्रुतिसुखवर्णाऽघटित्वादिति भावः, कर्णाटं तदाख्यदेशं च न, समाचक्षते, यस्य नामैव अप्रियं स स्वतः कथं प्रिय इति भावः, पुनः सुपदं महापदं चोपपदं ययोस्तयोः राष्ट्रयोः सुराष्ट्रमहाराष्ट्रयोः तदाख्यदेशयोः नाम्नोः वैयर्थ्यम् कुर्वपेक्षया
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy