________________ श्रीशान्तिनाथमहाकाव्यम्-चतुर्दशः सर्गः / अथ वक्ष्यमाणकथाभूमिकामाह युगादीति युगादिनाथस्य तनूभुवां शतं, बभूव तन्मध्यग एककः कुरुः / पिता यमस्याऽदित देशमंशतः, स तस्य नाम्ना कुरुरेव पप्रथे // 2 // युगादिनाथस्य श्रीवृषभस्वामिनः तनूभुवां पुत्राणां शतं बभूव, तेषां मध्यगोऽन्तवर्ती एककः एकः पुत्रः कुरुः तदाख्यः, आसीदितिशेषः / अस्य कुरोः कृते पिता श्रीयुगादिनाथः अंशतः भागप्राप्तं यं देशं राज्यं कर्तुमदित दत्तवान् , स देशः तस्य कुरोर्नाम्ना एव कुरुरिति पप्रथे ख्यातः कुरुरिति देशनाम नृपनामानुसारेणैव जातमित्यर्थः // 2 // संप्रति तं देशमेव वर्णयति भवन्तीति भवन्ति धान्यान्यपि यत्र सन्ततं, स्पृहां प्रकुर्वन्ति सुपर्वणामपि / पवर्तमानं त्वपरोपवर्तने, क्षमाणि दुर्भिक्षमपासितुं परम् // 3 // यत्र कुरुदेशे धान्यानि सस्यप्रभृतीनि सन्ततं भवन्ति, न तु देशान्तरवत्कालविशेषाधीनमिति विलक्षणगुणः स देश इति भावः / तथा यत्र जनाः सुपर्वणां देवानामपि सुखविशेषलाभात्स्पृहां स्पर्धा कुर्वन्ति, तु पुनः अपरोपवर्त्तने परचक्र प्रवर्त्तमानं परमसह्यं दुर्भिक्षमपि अपासितुं दूरीकर्तुं यानि धान्यानि क्षमाणि, समर्थानि एतेन धान्यानामतिबाहुल्यं, तेन च देशे सम्पदाधिक्यं तत एव देवस्पर्धित्वं चेति वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः // 3 // बजेष्विति व्रजेषु गावो विदुषामिवाऽऽसते, हिमाद्रिवद् यत्र समुन्नतोज्ज्वलाः / विनैव यत्नं परिपोषमाश्रिता, महात्ममां पुण्यभरैः कृता इव. // 4 // यत्र कुरुदेशे, व्रजेषु गोष्ठेषु गावः सुरभयः विदुषां विपश्चितां, गावः वाण्यः इव आसते सन्ति पवित्रत्वात् साम्यमिति भावः तथा हिमादिवत्समुन्नताः अत्युच्चा, उज्ज्वलाः धवलाश्च आसते, न तु ह्रस्वाकारा मलिनाश्च, यत्नं विनैव परिपोषमाश्रिताः परिपुष्टाः पीना इत्यर्थः, एतेन गोभक्ष्यतृणादिसमृद्धिः सूचिता, अत एव महात्मनामुत्तमजनानां पुण्यभरैः कृता निर्मिता इव स्थिता इत्यर्थः, पुण्यं विना नायनपोषः साध्य इति भावः / अत्रोपमोत्प्रेक्षयोः संसृष्टिः // 4 // गोष्ठा इति गोष्ठा यत्र विभान्ति गोभिरभितो नीरैस्तडागा इव, ग्रामा गोष्ठकुलैश्च यत्र नितरां नीराणि पौरिव / ग्रामैर्यत्र पुराणि निर्भरतरं पद्मानि भृङ्गैरिवाइन्योन्यस्पर्धविवृद्धहुंकृतिभरैर्भुङ्गा इव श्रीः पुरैः // 5 //