________________ ओं हौँ अई नमः / * श्री शान्तिनाथायाईते भगवते नमः / अनन्तलब्धिनिधानाय श्री गौतमस्वामिने नमः / _ नमो नमः श्री गुरुनेमिसूरये / न्यायवाचस्पति-शास्त्रविशारद-तपागच्छाचार्यमहाराज-श्री विजयदर्शनसूरीश्वरजित्संदृब्धया 'प्रबोधिनी' त्याख्यया व्याख्यया समलङ्कृतं महासाहित्यवादिशिरोमणि -श्रीपेरोजमहोमहेन्द्रसमधिगतप्रतिष्ठोदय श्रीमुनिभद्रसूरिप्रवरविरचितम् / श्रीशान्तिनाथ-महाकाव्यम् (तृतीयो विभागः) अथ चतुर्दशः सर्गः सर्गादौ-मङ्गलमाचरति ग्रन्थकारः यदिति यदच्छसंवेदनपुण्डरीकके, श्रिता त्रिलोकी भ्रमरीयते तराम् / मनीषितं वः सफलं तनोतु सः, श्रियांनिधिः शान्तिजिनेश्वरः सदा // 1 // - यस्य शान्तिजिनेश्वरस्य अच्छे सकलावरणक्षयाच्छुद्धे संवेदने केवलज्ञानरूपे पुण्डरीकके कमले श्रिता विषयभावेन सम्बद्धा त्रिलोकी भ्रमरीयते तराम् भ्रमरवदाचरति, स तादृशः श्रियां निधिराकरः सकलातिशयसम्पन्नः शान्तिजिनेश्वरः वः श्रोतृणां वाचकानाञ्च मनोरथं सफलम् तनोतु, यः सर्वज्ञः सर्वश्रीकश्च, ततो मनोरथलाभः सम्भवत्येवेतिभावः // 1 //