________________ श्री शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् [सप्तदशसर्गादौ मङ्गलाचरणश्लोकः ] सर्वे वादा यदीयागमगतनयतस्सं सृता भिन्नमार्गा, द्रव्यार्थः पर्यवाओं नयविभजनतस्संग्रहः सूक्ष्मगत्या / आनन्त्यं स्यान्नयानां वचनवदवरं तं जिनेशं प्रणम्य, व्याख्या सर्गे तु सप्तोत्तरदशप्रमिते दर्शनस्सन्तनोति // 1 // . [सप्तदशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] कर्तुः स्वोपज्ञटीका सहृदयमभितो दर्शयन्ती प्रकृष्टा, पुत्रान्तेवासिनद्धा बुधजनहृदयाह्लादिनी निश्चितार्था / संभाव्यार्था त्वियं सा जिनवरचरिते योजिता दर्शनेन, व्याख्या पूर्णा तु सप्तोत्तरदशप्रमिते मोददा भातु सर्गे // 1 // [ अष्टादशसर्गादौ मङ्गलाचरणश्लोकः ] दोषा सर्वे परोक्ता यदुदितसमये न स्पृशन्त्यर्थजातं, सिद्धानेकान्ततस्ते गगनसुमसमा इष्टतां यान्ति सिद्धाः / नत्वा तं शान्तिनाथं गुणततिकलितेऽष्टादशे वर्यसर्गे, व्याख्यां सूरिस्तनोति प्रविततचरिते दर्शनो दर्शनज्ञः // 1 // _[ अष्टादशसर्गान्तेऽन्त्यमङ्गलश्लोकः] सन्दिग्धार्था श्रयन्ते न खलु कृतधियो योजनामात्ररम्या, व्याख्यां विज्ञैविगीतां कठिनतरपदोल्लासितां भावशून्याम् / तद्भिन्ना शान्तिनाथप्रततचरितगा दर्शनोद्भावितार्था, . व्याख्या सर्गे प्रपूर्णा नियमितविषयाऽष्टादशे शान्तिदाऽस्तु // 1 // [एकोनविंशसर्गादौ मङ्गलाचरणश्लोकः] सर्वेऽप्यर्था यदीये सुमतिदिनकरेऽनन्तधर्मानुषक्ता, भासन्ते स्वप्रकाशे जनिलयरहिते केवले निष्कलके / तं नत्वा शान्तिनाथं जिनमपररविं दर्शनोऽन्त्ये च सर्गे, व्याख्यां भव्यां तनोति प्रकृतिपरिणतां भूतये मङ्गलाय // 1 // . [एकोनविंशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्याऽदृष्टोपसर्गे जिनवरचरिते भावनाभावितार्था, सर्गेऽन्त्ये नेमिसूरीश्वरगुरुकृपया दर्शनाप्तस्वरूपा /