________________ 342 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः पूर्णा पूर्णस्वभावं जनयति प्रमितैकोनविंशत्युपेता, व्याख्यायां कीर्तिमिष्टामपि निजजनके कल्पगां सन्तनोतु // 1 // . // प्रशस्तिः // पट्टे पश्चिमतीर्थकृत्प्रभुवराध्यासावदात्तप्रभे, यत्रानल्पगुणप्रभावकलितेऽभूच्छीसुधर्मा प्रभुः / तत्पश्चादपरेऽपि सूरिमुकुटाः काले बभूवुः क्रमात् , जैनानां मतमद्वितीयमभितः संस्थापयन्त्योऽमलम् // 1 // स्वच्छे तत्र तपाभिधानमहिते गच्छे सुधर्मान्विते, भव्ये जैनमतप्रचारनिलये विद्यावतामग्रणीः / सूरीशो नृपराजिलालितपदस्तीर्थोद्धृतिव्यापृतो, विख्यातो भुविर्नेमिसूरिरमराचार्योपमोऽभूबुधः // 2 // तत्पट्टे प्रथमः प्रशस्तचरणो न्यायादिविद्याचणो, गीतार्थनवरो गुणौघनिलयो व्याख्याननैपुण्यभाग् / नव्यन्यायविशारदो बहुविधग्रन्थोक्तिसंवादवद्व्याख्यानिर्मितकोविदोऽस्ति विदितो यो दर्शनः सूरिराट् // 3 // तेनेयं रचिता जिनस्य चरिते श्रीशान्तिनाथप्रभोव्याख्यैकोनकविंशसर्गसुगमा पूर्णा बुधाकाङ्किता / सा सूरीश्वरनेमिसूरिगुरवे स्वःस्थाय भक्त्यार्पिता, मोदं विज्ञजनस्य संविदधती कल्पान्तमस्तु स्थिरा // 4 // .