________________ 40 .. श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः नत्वा सर्गे तदीया चरणविधिकथागर्भकाव्ये प्रशस्त्ता, व्याख्या श्री दशर्नस्संतनुत इतचतुः पूर्वशब्दे दशेऽस्मिन् // 1 // ___[चतुर्दशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] अन्योच्छिष्टप्रधाना स्वमतविधुरिता वृद्धसंवादशून्या, मूलापेक्षाव्यपेता समनुगमनतोऽभूषितोन्मार्गगन्त्री / व्याख्यानादेयभावं कलयति विदुषां तद्विभिन्ना तु सर्गे, पूर्णा व्याख्या मितेऽस्मिन् भुवनगणनया दर्शनोत्थास्तु भूत्यै // 1 // [ पञ्चदशसर्गादौ मङ्गलाचरणश्लोकः ] निक्षेपाणां नयानां विषयभजनया योजनं यस्य शास्र, पूर्वाचार्या मिथोऽत्र व्यदधुरभिमतं स्वस्वपक्षं विविक्तम् / स्तुत्वा तं शान्तिनाथं जिनवरमभितो दर्शनो वक्ति सर्गे, व्याख्यां तिथ्यङ्कसंख्ये गुरुवरचरणाराधनावाप्तविद्यः // 1 // [ पञ्चदशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्या न्यूनैव सर्वा विलसति नितरां भावितानेकमार्गे, मूले भूतार्थगर्भे कृतिवररचिते शान्तिकृत्येकसारे / पूर्णेयं कल्पनातस्तिथिगणितमिते दर्शनावाप्तरूपा, सर्गे सुस्पष्टभावा मननपथगता मोददा स्याद् बुधानाम् // 1 // [ षोडशसर्गादौ मङ्गलाचरणश्लोकः ] . शास्त्रे यस्यास्ति वादो जनिमति सदसद्रूपणाकान्त आप्तग्रामानेकान्तचों विदलितकुहनैकान्तवादोऽप्रधृष्यः / तं स्तुत्वा शान्तिनाथं जिनवरमवरं दर्शनः सूरिवयों, व्याख्यां सर्गे मितार्था रचयति विमलां षोडशे ज्ञाततत्त्वः // 1 // [षोडशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] पये पद्ये विशिष्टाचरणविषयकोद्वोधदानप्रगल्भे, मूले मूलानपेतार्थविवरणपरा तीर्थकृद्भक्तिजाता / सर्गे व्याख्या प्रपूर्णा मितिनयलसिता नेमिसूरीशशिष्या. चार्यश्रीदर्शनात्तात्मभवनकलिता षोडशे मोददाऽस्तु // 1 //