________________ श्री-शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् [एकदशसर्गान्तेऽन्त्यमङ्गलश्लोकः] व्याख्यातारो विशिष्टागममननरताः पक्षपातं भजन्तः, शास्त्रार्थानां विचारे विदधति नितरां काव्यवृत्तावुपेक्षाम् / व्याख्या सर्गेऽतिभक्त्या जिनवरचरणे दर्शनेनादृतेयं, पूर्णा त्वेकादशे नो भवति जिनसुतैः शान्तिभक्त्यैरुपेक्ष्या // 1 // . [द्वादशसर्गादौमङ्गलाचरणश्लोकः ] जीवाजीवाश्रवायैर्विभजनघटना समधा यस्य तत्त्वे, जीवः संसारिमुक्त-द्वयविभजनया स्थापितोऽनेकयुक्त्या / धर्माधर्माद्यजीवे गदितमवितथं तं नमस्कृत्य शान्तिं, व्याख्या सर्गे करोति प्रविततिविषयां दर्शनो द्वादशेऽलम् // 1 // द्वादशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] एका सर्वस्य काम्या न च भवति नवा सर्वथा काऽप्यकाम्या, व्याख्या लोके प्रतीता भवति बहुविधोपेक्षिता चाहता च / सत्काव्येऽसत्यकाव्ये गतिरियमखिले संप्रधार्याऽत्र सर्गे, पूर्णेऽयं दर्शनस्यामलमतिरचिता द्वादशे वृत्तिरिष्टा // 1 // [त्रयोदशसर्गादौ मङ्गलाचरणश्लोकः ] यस्येयं सप्तभङ्गी प्रतिविषयमिता सप्तभङ्गप्रवृत्या, चादिष्टा माननीत्योः सकलविकलतायोगिनी मानमुख्या / तं श्री शान्ति प्रणम्याभयपदपथगो दर्शनो वक्ति सर्गे, व्याख्या योग्यां मितार्था त्रियुतदशमके विज्ञमोदप्रदात्रीम् // 1 // _ [त्रयोदशसर्गान्तेऽन्त्यमङ्गलश्लोकः ] मूलार्थ वक्तुकामैरतिकठिनवचोगुम्फनैस्संप्रवृत्ता, व्याख्योपादेयभावं भजति न सुधियां मन्दबुधेर्न चेष्टा / इत्यालोच्यैव बुद्धया सुगमवचनतो दर्शिता दर्शनेन, व्याख्या सर्गे प्रपूर्णा त्रियुतदशमके कामितार्थानुषक्ता // 1 // ___ [ चतुर्ददशसर्गादौ मङ्गलाचरणश्लोकः ] एव स्यात्तद्विमुक्तैः कुनयमिति नयाख्यानमस्त्यादिशब्दै गतिरभिमता शान्तिनाथं तमीज्यम् / / यत्स्याद