________________ श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः व्याख्येयं दर्शनोत्था निजगुणघटिताऽल्पाक्षरार्थोघमिश्रा, पूर्णा सर्गेऽष्टमेऽलं जनयतु विबुधानन्दकन्दप्रकर्षम् // 1 // [ नवमसर्गादौ मङ्गलाचरणश्लोकः ] यत्स्याद्वादं श्रयन्ते विमलमतिधनाः साङ्ख्यकाणादबौद्धा, एकानेकप्रधानाधुपगमनघटा दुर्घटैवान्यथा स्यात् / स्मृत्वा तं शान्तिनाथं गुरुपदविनतो दर्शनो भव्यसर्गे, व्याख्यां योग्यां तनोति स्फुटमिह नवमे मोददां धीनिधीनाम् // 1 // [नवमसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्याद्वैते समार्थे यदि भवति तदा व्यर्थतैवोत्तरस्यां, भिन्नार्थ मूलकत्तुः क्व नु मतिरनयोस्संशयः स्यादवश्यम् / एषा व्याख्याऽगतार्था प्रथमत उदिता दर्शनेनाद्वितीया, . पूर्णा सर्गे मनोज्ञे भवति तु नवमे नोक्तदोषानुविद्धा // 1 // [ दशमसर्गादौ मङ्गलाचरणश्लोकः ] यस्याध्यक्षं परोक्षं स्वपरविषयकं निर्णयैकस्वभावं, ज्ञानं मानं स्वतोऽर्थोऽनुगतिमतिगतस्स्याद्विशेषस्तथैव / , तं नत्वा शान्तिनाथं सुचरितमवरं दर्शनो मन्दबुद्धिख्यिां सर्गे तनोति स्फुटमिह दशमे नेमिसूरीशशिष्यः // 1 // [ दशमसर्गान्तेऽन्त्यमङ्गलशेकः ] . व्याख्या काप्याप्तनद्धा सुचरितविषयौत्सुक्यतो दर्शनीया, विज्ञानां नात्र शङ्का प्रसरति विषये बालगोपालसिद्धे / व्याख्या त्वेषात्वपूर्वे जिनवरचरिते भक्तिमदर्शनान्ता, पूर्णा सर्गे विशिष्टाऽनुभवतु दशमे मान्यतां बुद्धिमाजाम् // 1 // [ एकादशसर्गादौ मङ्गलाचरणश्लोकः ] उत्पादध्रौव्यनाशैः प्रतिसमयमिता युक्तता वस्तुमात्रे, सक्ताऽनेकान्तवादे निजनिजगमकापेक्षया यस्य भव्ये / तं नत्वा श्रीजिनेन्द्रं स्वसमयधिषणो दर्शनस्संतनोति, व्याख्यामेकादशेऽस्मिन् जिनवरचरिते पूजनीये तु सर्गे // 1 // .