________________ श्री-शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् [षष्ठसर्गादौ मङ्गलाचरणश्लोकः ] सर्वे वादा यदीयागमजलनिधितो निर्गता भिन्नमार्गा, एकान्तस्थानभूमौ नियतपतनतो न प्रतिष्ठां लभन्ते / श्रीमन्तं शान्तिनाथं तमिह जिनवरं सर्वविघ्नापनुत्यै, नुत्वा सर्गे तु षष्ठे विवृतिमतिमितां दर्शनः सन्तनोति // 1 // [सप्तमसर्गादौ मङ्गलाचरणश्लोकः] [ षष्ठसर्गान्तेऽन्त्यमङ्गलश्लोकः] व्याख्येयं नूतनाभानवनवविषयोद्बोधनैकान्तदक्षा, नो गुर्वी नातिलष्वी सुगमसरणिणाषष्ठसर्गार्थभव्या। पूर्णश्रीदर्शनस्यामितमलिनिचिता बन्धुराचित्रभावा विज्ञेभ्यो मोददाने भवतु पटुतरा दृष्टिमार्गोपजाता // 1 // अस्त्यात्मा नित्य एषो भवति च कृतिमान् भोगकृत् कर्मवितो, मुक्तः सम्यक्त्वषट्कं षडितरदुदितात्रास्ति जीवादि मिथ्या / व्यक्तं सूत्रे यदीये तमिह जिनवरं दर्शनोऽहं प्रणम्य, कुर्वे व्याख्यां तु सर्गे जिनवरचरिते सप्तमे भव्यतत्त्वाम् // 1 // [सप्तमसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्या चैकत्र काव्ये भवति बहुविधा कर्तृमन्तव्यभेदात् , सर्वा सा सर्वमान्या न च भवति ततः श्लाध्यता श्रोतृभिन्ना / इत्थं चैतद्वयवस्था बुधततिप्रमितामाश्रयन्तीह पूर्णा , व्याख्या सर्गे प्रशस्ता भवतु बुधमता सप्तमे दर्शनोत्था // 1 // [अष्टमसर्गादौ मङ्गलाचरणश्लोकः ] यः सामान्यं विशेषाकलितमुदितवान् वस्त्वभिन्नं च भिन्नं, ज्ञेयं जात्यन्तरं नो भवति परमतैर्दूषणैर्बाधनीयम् / तं नत्वा शान्तिनाथं जिनमतुलगुणं दर्शनो दर्शनज्ञो, व्याख्यां सर्गेऽष्टमेऽर्थान्वयमतिजननी पद्यराशेस्तनोति // 1 // [अष्टमसर्गान्तेऽन्त्यमङ्गल श्लोकः ] हृद्यालङ्कारयुक्ता नवरसकलिता मूलपद्यावली या, साकाङ्क्षासत्तियोग्यां बहुविधहृदयां तां समालिङ्ग्य जाता / शा०४३