________________ 336 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः नत्वा तं जिनमाप्तमस्य चरिते व्याख्यां तृतीये स्फुटां, सर्गे संतनुते निसर्गमधुरे विद्याधनो दर्शन // 1 // [तृतीयसर्गान्तेऽन्त्यमङ्गलश्लोकः ] या भक्तिर्गुरुनेमिसूरिचरणे शक्तिस्तु या भाविकी, नैपुण्यं बहुलोकशास्त्ररचनादालोनातोऽपि यत् / अभ्यासो बुधशिक्षया समभवत् योऽसौ समस्तैस्तु तैव्याख्या तिमियं च दर्शनभवा सर्गे तृतीये गता // 1 // [चतुर्यसर्गादौ मङ्गलाचरणश्लोकः ] शान्ति यस्तनुतेऽभितां जिनवरश्चेत्ये विचित्रप्रभे, शस्त्रालङ्कतिशून्यभव्यमुकुटाद्यच्छ त्मबिम्बार्चके / लोके मक्तिभराञ्चिते तमभितश्श्रीशान्तिनाथं प्रभु, नत्वा सर्ग इमां करोति सुकृती व्याख्यां तुरीये वराम् // 1 // [ चतुर्थसर्गान्तेऽन्त्यमङ्गलश्लोकः ] . व्याख्यानान्तरशून्यतापरिचिते मूक्तेऽतिगूढार्थके, सर्गे दर्शनसूरिबुद्धिजनिता व्याख्या तुरीये तु या / ' सा पूर्णाऽपि कथं भविष्यति तथा नो पूर्णमोदप्रदा, विझानां यदि तर्हि कामितफलं कर्तुः स्वयं दास्यति // 1 // [पञ्चमसर्गादौ मङ्गलाचरण-श्लोकः ] .' यज्झाने भाति विश्वं चरमचरमपि स्वस्वधर्मावलीढं, सापेक्षं युक्त्युपेतावितथबहुविधप्राज्यमानोपनीतम् / नत्वा तं शांतिनाथं गुरुचरणरतो दर्शनः पञ्चमेऽस्य, सर्गे व्याख्यां तनोति स्फूटतरवचनैर्भावबोधप्रवीणाम् // 1 // [पञ्चमसर्गान्तेऽन्त्यमङ्गलश्लोकः ] व्याख्या तन्वी मनोज्ञा सरसवचनतो भोददा मार्मिकाणां, नीतिवातावनद्धा मितिततिभजनोल्लासनैकान्तकान्ता / पूर्णा श्रीनेमिसूरिप्रवरगुरुकृपाऽवाप्तविधेन सर्गे, संदब्धा दर्शनेनागमहृदयविदा पञ्चमे गूढतत्त्वे // 1 //