________________ // श्री-शान्तिनाथ-महाकाव्य-व्याख्याकृता कृतं मङ्गलम् // [प्रथमसर्गादौमङ्गलाचरण-श्लोकद्वयम् ] यच्छान्त्यं शमवाप्य निःस्पृह तया योगीश्वराः कामनातीताध्यात्पदं निरामयमलं पश्यन्ति तादात्म्यतः / तं शान्त्यैकनिकेतनं जिनवरंनत्वा तनोति स्फुटां, व्याख्यां दर्शनसूरिरस्य चरिते श्री शान्तिनाथप्रभोः // 1 // साहाय्यं स्मृमितिमागतो गुरुवरः श्रीनेमिसूरिः कृपापारावार इहाशयामलमतिं दत्वा करिष्यत्यलम् / आसत्यादिविभावितान्वयमति प्रद्योतनैकक्रिया, व्याख्येयं प्रभुशान्तिनाथचरणे सेवार्थमुल्लासिता // 2 // [ प्रथमसगान्तेऽन्त्यमङ्गलल्लाकः ] वृत्यर्थान्वयबोधिका नियमिता तात्पर्यतोऽर्थे वरे, बाध्यार्थापरिशीलिता विमतिहृत्कोशप्रमाणान्वया / आप्ते शान्तिचरित्रसङ्गतिपरे मूलार्थविद्योतिता, सर्गे पूर्तिमुपागाता तनुतरा व्याख्यांऽशतो भाविता // 1 // द्वितीयसर्गादौ मङ्गलाचरण-श्लोकः ] यं मातुं न गुणैर्गुरुप्रभृतयो देवेन्द्रपूज्या जिनं, शक्ताः शान्तिनितान्तकान्तममलं मुक्त्यङ्गनालिङ्गितम् / तं श्रीशान्तिपतिं वरिष्ठचरितं नत्वा द्वितीये वरे, सर्गे दर्शनसूरिगप्तचरिते व्याख्यां तनोत्यादरात् // 1 // [द्वितीयसर्गान्तेऽन्त्यमालश्लोकः ] पौर्वापर्ययुते सुपद्यनिचये गूढाशयोल्लासिते, साङ्गत्येन मिथोऽन्वयानुगमनेऽनेकान्तमार्गाश्रिता / व्याख्या दर्शनसूरिणा विरचिता सर्गे द्वितीये गता, पूर्ति शान्तिचरित्रचर्वणपरा विज्ञप्रमोदप्रदा // 1 // . [तृतीयसर्गादौ मङ्गलाचरणश्लोकः ] यो रागादिविपक्षपक्षदलनाज्ज्ञनप्रकर्ष गतो, देवेन्द्रादिभिरर्चनीयचरणोऽबाध्यागमैकान्तभू : /