________________ प्रशस्तिः काव्यकर्तुः कल्याणात्मा सुरगिरिरिवाऽऽकान्तलक्षप्रमाणः, प्रीत्युकर्षाद् विविधविबुधाधीश्वरै स्तूयमानः / कल्पान्तेऽप्यप्रतिहतिमयं निश्चलत्वं दधानः, सिद्धाकाङ्क्षः स जयति चिरं श्री बृहद्गच्छगच्छः // 1 // भव्याम्भोजविबोधनेन विदितः श्वेताम्बरोद्योतकः, सर्वाशाप्रतिरोधकोग्रतमसा प्रध्वंससंपादकः / तत्र श्रीमुनिचन्द्रसृरिरभवद् भास्वानिवोद्यद्विभः, सन्मार्ग प्रकटी चकार भगवान् यो जीवमैत्री श्रयन् // 2 // तत्पट्टाचलपूर्वपर्वतशिरःशृङ्गारतिग्मद्युतिः, स्फूर्जत्कौमुदचन्द्रधामनिहतिप्रख्यातकीर्तिवजः / / तापव्यापदपाकृतिप्रमुदितैरासेव्यमानो भशं, सच्चनैः सततं चिरं स जयति श्रीदेवसूरिप्रभुः // 3 // पट्टे तस्य बभूवुरद्भुतमतिप्रागल्भ्यविभ्राजिनः, श्रीभद्रेश्वरसूरयः शमरसात् कूपारलीलाभृतः / लक्ष्मीर्यत्पदवासिनी समभवत् पीयूषबन्धोगिरः, प्रौतेवाऽपरथा कथं द्वयमिदं विन्दन्ति तद्वन्दिनः // 4 // सूरि श्रीविजयेन्दुसूरिरभवत् तत्पट्टनिष्ठक्रमो, मिथ्यात्वद्विपमानभञ्जनविधौ पश्चाननस्याग्रजः / यं मीमांसकनास्तिकप्रभृतयो मानोन्नता वादिनः, श्रुत्वा सत्पथवर्तिनं जडतयैवाऽऽलम्बिताः कापथम् // 5 // तत्पट्टे पथिमानमाप गणभृत् श्रीमानभद्रप्रभुश्चित्रं चित्रशिखण्डिजस्य कुरुते यद्बुद्धिरालोकिता / चार्वाकं सुकृतानुमापकतया न्यक्कुर्वती सर्वतः, कर्मद्वैतनिदर्शनेन च तथा द्वैतप्रवादं हठात् // 6 // तस्य श्रीगुणभद्रसूरिसुगुरुः पट्टावतंसोऽभवद् , यः श्रीशाहिमुहंमदस्य पुरतः क्षमापालचूडामणेः /