________________ प्रशस्तिः काव्यकर्तुः श्लोकव्याकृतिरञ्जितस्य ददतः सौवर्णटङ्कायुतं, ग्राह्यं नैव तपस्विनामिति वदंश्चारित्रमस्थापयत् // 7 // केचिद् व्याकरणे भवन्ति निपुणाः केचित् पुनच्छन्दसि, प्रायः केचन नाटकेषु नितरां तर्केषु केचिन्पुनः / साहित्ये कतिचित् प्रसन्नमतयोऽलङ्कारपारङ्गमाचातुर्ये गुणभद्रसूरिसुगुरोः शास्त्रेषु सर्वेष्वपि // 8 // तच्छिष्यो मुनिभद्रसूरिरजनि स्याद्वादिसंमाननः, श्रीपेरोजमहीमहेन्द्रसदसि प्राप्तप्रतिष्ठोदयः / / तेनेदं निरमायि मन्दमतिना श्रीशान्तिवृत्तं नवं, तत्तजन्मसहस्रसंचितमहादुष्कर्मविच्छित्तये // 9 // पूज्यश्रीमुनिदेवसूरिरचितश्रीशान्तितीर्थेश्वरप्रख्याताद्भुतकाव्यदर्शनतया कायं मयेदं कृतम् / उत्सूत्रं यदि भावि किश्चिदपि तद् नाऽदेयमेतत् सतां, स्याद् नूनं नच निर्वृतिं रचयतीत्यालोच्य बुद्धयाऽधिकम् // 10 // श्रीमान् हर्षपुरीयगच्छजलधिप्रोल्लासशीतद्युतिर्वाणीभूषणराजशेखरगुरुः सौजन्यसंवासभूः / श्रीशान्तेश्चरितं व्यशोधयदिदं दुष्कर्ममर्मापहं, प्राज्ञस्त्वैरपि शोध्यमेतदसमं कृत्वा प्रसादं मयि // 11 // अर्हत्पादपयोजसेवनविधौ यो वर्तते हंसवद् , नित्यं सद्गुरुभक्त्यगाधसरसीक्रीडोऽच्छपक्षद्वयः / / नीरक्षीरविवेकवत् प्रमनुते योऽधर्मधर्मान्तरं, स श्रीशान्तिजिनेन्द्रकाव्यभणने संरम्भमुद्भावयेद् // 12 // ये दोषान् प्रतिपादयन्ति सुधियः श्रीकालिदासोक्तिषु, श्रीमद्भारविमाघपण्डितमहाकाव्यद्वयेऽप्यन्वहम् / श्रीहर्षामृतसूक्तिनैषधमहाकाव्येऽपि ते केवलं, यावद् वृत्तविवर्णनेन भगवच्छान्तेश्चरित्रे गुणान् // 13 // मिथ्यात्वाश्चितकाव्यपञ्चकमिदं व्याचक्षते सूरयो, यद्वद् प्राथमकल्पिकाय सततं व्युत्पत्तिसंप्राप्तये