________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् गृहीतदीक्षः चक्रायुधस्तदाख्यो गणभृद् गणधरोऽपि तीवेणोत्कटेन तपसा दुष्कर्माणि निहत्य विनाश्य, विनाशेन उज्झितं रहितं स्वस्वरूपेण नित्यमित्यर्थः / ज्ञानं केवलज्ञानं लब्ध्वा, भव्यामां प्रबोधे ज्ञानसम्पादने उद्यतस्तत्परः सन् सुचिरं दीर्घकालं यावत्, भूवलये महीतले विहृत्य विहारं विधाय, अत्रास्मिन् लोके कोटिशिलाऽऽख्यया कोटिशिलानाम्ना विदिते ख्याते तीर्थे क्रमात् कालक्रमात्, निर्वाणमाभरणं यस्य स तादृशो बभूव, निर्वाणं प्राप्तवानित्यर्थः // 11 // अथ प्रन्यान्ते कल्याणमाशंसन्नाह राज्य मिति राज्यं भुक्तवतोऽपि यस्य समभूत् सा चक्रिलक्ष्मीर्वशे, भोगानां विमुखः सुदुर्जयतमं मोहं न्यहन् यः स्फुटम् / वित्तिश्रीसहचारिणीं च रमते यः सिद्धिसीमन्तिनी, कल्याणं स ददातु वः प्रतिदिनं श्रीशान्तिनाथः प्रभुः // 92 // यस्य श्रीशान्तिनाथस्य राज्यं भुक्तवतः पालितवतोऽपि सा प्रसिद्धा चक्रिलक्ष्मीः चक्रवर्तिश्रीः वशे वशगाऽभूत् / तथा, यः श्रीशान्तिः, भोगानां विमुखः भोगेभ्यः पराङ्मुखः सन् , भोगानामिति शपे षष्ठी बोध्या सुदुर्जयतमं जेतुमत्यन्तं दुश्शकमसाध्य मोहं ममत्वबुद्धिं स्फुटं विशदं यथा स्यातथा न्यहन् विनाशितवान् , त्यक्तवानित्यर्थः तथा, यश्च वित्तेः ज्ञानस्य या श्रीस्तस्याः सहचारिणी सखी सिद्धिरेव स्त्रीत्वात् सीमन्तिनी ललना ताम्, रमते सेवते, यत्र ज्ञानं तत्रैव सिद्धिरिति भावः / स श्रीशान्तिनाथः प्रभुः वः श्रोतृणामध्येतृणां च प्रतिदिनं कल्याणं ददातु // 92 // मथ सर्गसमाप्तिमाह-मासीदिति-- आसीच्छीगुरुगच्छमौलिमुकुटश्रीमानभद्रप्रभोः, . . पट्टे श्रीगुणभद्रसूरिसुगुरुर्विज्ञानभाजां गुरुः। तच्छिष्येण कृतेऽत्र सर्ग उचिते श्रीशान्तिवृत्ते महा काव्ये श्रीमुनिभद्रसूरिकविनाऽप्येकोनविंशोऽगमत् // 13 // श्रीगुरूणां लक्ष्मीश्रेष्ठानां गच्छानां मौलानां मस्तकानां मुकुटरूपस्य श्रीमानभद्रप्रभोः पट्टे विज्ञानभाजां विशिष्टज्ञानिनां गुरुः श्रेष्ठः श्रीगुणभद्रसूरिस्तदाख्यः सुगुरुरासीत् / तस्य गुणभद्रसूरेः शिष्येण श्रीमुनिभद्रसूरिकविना कृते रचिते, अत्राऽस्मिन् उचितेऽभ्यस्ते उत्तमे वा श्रीशान्तः वृत्तेपद्यात्मकचरित्रे वृत्तान्तात्मके वा महाकाव्ये, एकोनविंशोऽपि तत्सङ्ख्यकोऽपि सर्गः अगमत् समाप्तः //