________________ 330 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः अथ शान्तिनाथकालमाह-वर्षाणामिति / वर्षाणां किल पञ्चविंशतिरभूत् कौमारकाले प्रभो, राज्ये चक्रिपदे व्रते च सकलं लक्षं पुनर्मीलितम् / . आसीद धर्मजिनस्य मुक्तिसमयात् शान्तिप्रभोनिर्वृतिः, पादन्यूनकपल्यहीनजलधिष्वीतेषु तेषु त्रिषु // 89 // प्रभोः श्रीशान्तिनाथजिनस्य, कौमारकाले बाल्ये, वर्षाणां पञ्चविंशतिः, अभूत् , किलेत्यैतिहये, इयं कालगणना ऐतिहयप्रसिद्धयनुसारेणेत्यर्थः / प्रभोः पञ्चविंशतिर्वर्षाणां कौमारावस्थेत्यर्थः / तथा पुनः, राज्ये राज्यकाले, चक्रिपदे चक्रिपदयुक्ते व्रते च वर्षाणां पञ्चविंशतिः सकलं मीलितमेकीकृतम्, लक्षं लक्षवर्षात्मकम्, सम्पूर्णमायुः ननु स कदाऽभूत् कदा च निर्वृत्त इत्याह आसीदिति धर्मजिनस्य धर्मनाथतीर्थङ्करस्य मुक्तिसमयान्मुक्तिसमयमवधीकृत्य, तेषु प्रसिद्धेषु, त्रिषु त्रिसङ्ख्यकेषु, पादेन चतुर्थी शे न्यूनमेव न्यूनकं यत्पल्यं पल्योपमम्, तस्माद् हीनेषु न्यूनेषु जलधिषु सागरोपमेषु ईतेषु व्यतीतेषु सत्सु / ईधातोः क्ते ईतमिति रूपं बोध्यम् / शान्तिप्रभोनितिर्मुक्तिरासीदभूत् // 89 // अथ देवानां स्वस्वस्थानगमनमाह रत्नेति रत्नस्तुपे लिखित्वेत्यनुपमसुषमासुप्रशस्तां प्रशस्ति, श्रीशान्तेर्देवराजप्रमुखसुरवरा मङ्घ नन्दीश्वरेऽपि / , ते गत्वाऽष्टाहिकाया महिमपरमई संविधायाऽस्तशोकाः, स्वं स्वं स्थानं मतीयुः प्रमदसमुदयाऽऽपूर्णचित्ता विमानैः // 9 // श्रीशान्तः शान्तिजिनस्य, इत्युक्तप्रकारां बल्यादिकालबोधिकाम् अनुपमया शोभया सुषमाकालेन वा सुप्रशस्तामत्युत्तमां प्रशस्ति प्रशस्तिश्लोकं रत्नस्तुपे लिखित्वा, ते प्रस्तुता देवराजा इन्द्राः प्रमुखा येषु ते तादृशाः सुरवराः, मञ्जु शीघ्रमेव, नन्दीश्वरे तार्थेऽपि गत्वा अष्टाहिकायाः महिमपरं महत्त्वास्पदं महमुत्सवं संविधाय कृत्वा, अस्तशोकाः शो करहिताः, अत एव, प्रमदस्य हर्षस्य समुदयेनोद्भवेन आपूर्ण संभृतं चित्तं येषां ते तादृशाः प्रहृष्टाः सन्तः, विमानैः वायुयानैः कृत्वा स्वं स्वं स्थानं प्रति ईयुः जम्मुः / “मुत्प्रीतिः प्रमदो हर्ष" इति अमरः // 90 // मथ चक्रायुधनिर्वाणमाह दुष्कर्माणीति दुष्कर्माणि निहत्य तीव्रतपसा ज्ञानं विनाशोज्झितं, लब्ध्वा भूवलये विहृत्य सुचिरं भव्यप्रबोधोयतः / तीर्थे कोटिशिलाख्ययाऽत्र विदिते संप्राप्तसंन्यासको, निर्वाणाभरणो बभूव गणभृच्चक्रायुधोऽपि क्रमात् // 9 // .