SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् 329 वह्नावग्नौ, मरुतो वायोः सम्पातमात्रात्सञ्चारमात्रेणाऽपि, उच्छयताम् ऊर्ध्वग्वलत्वं समीयुषि प्राप्ते सति, ततोऽनन्तरं ताभ्यश्चिताभ्यो विनिःसृतं निर्गतं ज्वालानां त्रितयम्, तीर्थङ्करस्य अन्येषां मुनीनामात्मनाञ्च कथञ्चिदिव केनाऽपि प्रकारेण तत्प्रसिद्धं भेदं तारतम्यं वेदयितुं ज्ञापयितुम्, इदं केवलवेदनं केवलज्ञानं लोकत्रयस्य आलोकने त्रित्वं त्रिसङ्ख्यत्वं गतं प्राप्तमिव अभाद् भाति स्म अत्र लोकत्रयेति पदस्यार्थः केवलवेदनस्य त्रित्वे हेतुतयोपन्यस्त इति पदार्थहेतुकः काव्यलिङ्गमलकारः // 86 // अथ चिताविध्यापनदंष्ट्राग्रहणमाह-मेदोधामेतिमेदोधामविवर्जधातुषु शिखिप्लुष्टेषु दुग्धाम्बुभि वर्मघकुमारकैरतिजवाद विध्यापितायां चितौ / ऊर्धामादित दक्षिणां सुरपतिदंष्ट्रामधस्ताच्च तां, पातालाधिपतिर्जिनस्य चमरो दोषप्रमोषादरः // 87 // मेदसो वसाया धाम सारः इव मेदोधाम कीकसम्, अस्थीत्यर्थः / तस्माद्विवर्जेषु रहितेषु धातुषु मांसादिषु शिखिनाऽग्निना प्लुष्टेषु दग्धेषु सत्सु, मेघकुमारकैः देवैः, अतिजवादतिशीघ्र दुग्धैरम्बुभिश्च, क्षीरोदवारिभिर्वा चितौ चितायां विध्यापितायामुपशमितायां सत्याम् सुरपतिरिन्द्रः जिनस्य श्रीशान्तिनाथस्य ऊर्ध्वामुपरिस्थां दक्षिणां दक्षिणभागस्यां दंष्ट्रामादित गृहीतवान् पातालाऽधिपतिचमरस्तदाख्य इन्द्रश्च, दोषप्रमोषे दोषोन्मूलने आदरः साग्रहं मनो यस्य स तादृशः, जिनदंष्ट्रा पावस्था सती दोषनाशिनीति तथा हृदयः सन् , अधस्तादधोभागस्थां तां दक्षिणां च आदितेति सम्बध्यते // 8 // अथाऽन्येषामपि दंष्ट्राधादानं स्तूपस्थापनाञ्चाह-ईशानेति -- ईशानाधिपतिर्बलिश्च मघवा बामे च दंष्ट्रे तथा - ऽग्राहीष्टां क्रमशः परे च रदना नाखण्डलाश्चाभितः / अस्थीन्यादिषताऽमरा नृपतयो भूतिं च रेणुं नरा, रत्नस्तूपमतिष्ठिपज्जिनचितिस्थानेऽथ देवेश्वराः // 8 // ईशानाऽधिपतिरीशानेन्द्रः बलिस्तदाख्यश्च मघवा इन्द्रः, तथा पूर्ववत् वामे सव्ये दंष्ट्रे ऊर्ध्वाडधःस्थे, अग्रहिष्टाम् गृहीतवन्तौ अत्राऽग्राहीष्टामिति पाठच्युतसंस्कारः, अद्यतन्यां ग्रहधातोर्टान्तस्वेन वृद्धिनिषेधात् इटो दीर्घाच्च अग्रहीष्टामिति पाठे तु वृतभङ्ग इति सुधीभिर्येयम् परेऽन्ये आखण्डला इन्द्राश्चाभितः पार्श्वतः क्रमशो यथाक्रमम् , रदनान् दंतान् अग्रहीषुरिति शेषः, तथा, अमराः इन्द्रातिरिक्ता देवाः अस्थीनि, नृपतयः, भूति भस्म, नराश्च रेणुं पांसुम्, आदिषत गृहीतवन्तः, अज्जिनस्यैव, अथाऽनन्तरं देवेश्वरा देवेन्द्राः जिनस्य श्रीशान्तिनाथस्य चितेश्चितायाः स्थाने रत्नस्तूपं रत्नमयस्तूपं स्वनामप्रसिद्धम् अतिष्ठिपत् स्थापयन्ति स्म // 88 // 42
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy