________________ 128 श्रीशान्तिनाथमहाकाव्यम् एकोनविंशः सर्गः। प्रेक्षणस्य समवेक्षणक्षणस्थैर्यमेव दधतः पदे पदे। निन्युराशु शिबिकात्रयं चितासन्निधौ सुरपतिः सुराश्च ते // 83 / / प्रेक्षणस्य दर्शकस्य, प्रेक्षते इति नन्दादित्वादनः, पदे पदे प्रतिपदं समवेक्षणे दर्शने क्षणस्थैर्य कालबिलम्बमेव दधतः कुर्वतः सतोऽपि, अन्तिमदर्शनत्वादिति भावः सुरपतिरिन्द्रः, ते सुराश्च आशु शिबिकात्रयम् चितासन्निधौ निन्युः प्रापयामासुः / / 83 / / अथ चितायां तेषां व्यवस्थापनमाह-प्राचीति प्राचीपतिय॑धित शान्तिजिनस्य देहं, पाच्यां समारचितवृत्तमहाचितायाम् / अन्ये सुराश्च चतुरस्रचिताद्वयेऽपि, देहान न्यधुर्मुनिगणस्य परस्य खेदात् // 84 // प्राच्याः पूर्वदिशायाः पतिरिन्द्रः प्राच्यां पूर्व दिशि समारचितायां निर्मितायां वृत्तायां वर्तुलायां महत्यां चितायां शान्तिजिनस्य देहं शरीरम् खेदात् सशोकं यथास्यात्तथा न्यधितातिष्ठपत् , अन्ये सुराश्चापि चतुरस्र चतुष्कोणे चिताद्वये परस्याऽन्यस्य मुनिगणस्य देहान् शरीराणि न्यधुरतिष्ठिपत् , खेदादित्यत्राऽपि सम्बध्यते // 84 // अथ चितायामग्न्यादिप्रदानमाह-वह्निमितिवहिं वह्निकुमारका द्रुततरं तत्राऽमराश्चिक्षिषु तिं वातकुमारकास्तदपरे कर्पूरधूपानपि / उत्पन्ना खलु धूमधोरणिरियं ताभ्यश्चिताभ्यस्त्रिधा, कालुष्यं भुवनत्रयस्य ददतीवाऽभाज्जिनेन्द्रव्यये // 85 // तत्र चितासु वह्निकुमारकाः स्वनामरव्याता अमरा देवा द्रुततरमतिशीघ्रम् कालविलम्बस्याऽनपेक्षणीयत्वादिति भावः वह्नि चिक्षिपुः निक्षिप्तवन्तः, वातकुमारकाः स्वनामरख्याताः पवनकुमाराः अमरा वातं वह्निसन्दीपकं पवनम्, चिक्षिपुरिति सम्बध्यते वायुना प्रज्वालयन्ति स्म ताभ्यामग्निकुमारवातकुमाराभ्यामपरेऽन्ये देवाः अपि कर्पूरधूपान् , चिक्षिपुरित्यनुषज्यते ताभ्यश्चिताभ्यस्तिसृभ्यः त्रिधा त्रिप्रकारा उत्पन्ना इयं प्रत्यक्षकल्पा धूमानां धोरणिः परम्परा जिनेन्द्रव्यये प्रभोविरहे सति, भुवनत्रयस्य कालुष्यं शोकजन्यमलिनत्वम् , धर्म चक्रप्रवर्तकाऽसत्वाद् दुःखार्त्तत्वं वा ददती ददानेव अभात् भाति स्म। उत्प्रेक्षा // 85 // अथ चिताऽग्निज्वालां वर्णयति-वह्नाविति - वहावुच्छ्यतां समीयुषि मरुत्संपातमात्रादपि, ज्वालानां त्रितयं विनिःसृतमभात् ताभ्यश्चिताभ्यस्ततः / भेदं वेदयितुं कथञ्चिदिव तत् तीङ्करान्यात्मनां त्रित्व केवलवेदनागतमिदं लोकत्रयालोकने // 86 // .