SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ 327 आ० श्रीविजयदर्शनसूरीश्वरकृत प्रबोधिनीयुतम् / मार्यमुनीनाम् अङ्गानि शरीराणि तथैव कृत्वा स्नानार्चादि कृत्वा ते दिविषदो देवाः, सपदि सद्यः याप्ययानेषु शिबिकासु "शिविका याप्ययाने" इति हैमः / अमान् स्थापयन्ति स्म // 79 // अथ देवकृतशिषिकोद्वहनमाह-उद्दधारेति उद्दधार शिविकां शतक्रतुः स्वामिनः स्वशिरसा विषादभाव / द्वे तु ये च शिबिके पृथक पृथक् ते सहस्रममरा समुद्दधुः // 8 // शतक्रतुरिन्द्रः, विषादभाक् स्वामिविरहेण विषण्णः सन् स्वशिरसा स्वमस्तकेन स्वामिनः शान्तिनाथस्य शिबिकां याप्ययानमुद्दधार ऊढवान् / द्वे उभे तु ये च शिबिके इक्ष्वाकुकुलोत्पन्नमुनीनां तद्व्यतिरिक्तमुनीनाञ्चेत्यभिगम्यते ते द्वे शिबिके, सहस्रममराः सहस्रसंख्याका देवाः पृथक पृथक्, समुद्दधुरुद्वहन्ति स्म // 80 // अथ देवैः शिबिकात्रयस्य चितासमीपप्रापणं विशेषकेणाऽऽह पौलोम्यादिकेतिपौलोम्यादिकदेवतासु ददतीपूच्चैः स्वरं रासकान्, गन्धर्वपकरे पुरः कलरवं संगीतकं कुर्वति / वासोवन्दनमालिकाः सरमसं तन्वत्सु देवेष्वलं, रङ्गं केषुचिदुत्सृजत्सु मनसः काश्मीरपङ्कच्छलात् // 8 // पौलोमी इन्द्राणी सा आदिः प्रथमा मुख्या वा यासां तासु देवतासु इन्द्राणीप्रभृतिदेवीषु, उच्चैः स्वरो यथा स्यात्तथा, रासकान् तदाख्यगीतविशेषान् ददतीषु कुर्वतीषु सत्सु तथा पुरोऽग्रे गन्धर्वाणां देवविशेषाणां प्रकरे समूहे कलो मधुरो रवः स्वरो यथास्यात्तथा सङ्गीतकं सङ्गीतं कुर्वति सति, देवेषु वासांसि वन्दनमालिकाश्च सरभसं सवेगहर्षम् अलमत्यर्थम् तन्वत्सु वितरत्सु सत्सु, केषुचिदेवेषु काश्मीरं घुसृणं तस्य पङ्कस्य कर्दमस्य च्छलाद्वयाजान्मनसो रङ्गमनुरागम्, भक्तिमिति यावत् उत्सृजत्सु उत्क्षिपत्सु सत्सु // 81 // स्वाम्यग्रेऽगुरुज बहत्सु बहलं धूपं पुनः केषुचिद्, गन्धाढया अपि केषुचित सुमनसो मालाः प्रवर्षत्सु च / विभ्राणेषु विभोरुपर्युपरि च च्छत्रोच्चयं केषुचित् शेषाः केषुचिदाच्छिनत्सु परतो निःशेषदोषच्छिदे // 82 // पुनस्तथा, केषुचिद्देवेषु स्वाम्यग्रे शान्तिनाथाऽग्रे अगुरुजं कृष्णागुरजं बहलं सान्द्रं धूपं वहत्सु नयत्सु सत्सु केषुचिदेवेषु च गन्धाढ्याः परिमलोद्गारिणीः सुमनसः, माला अपि, प्रवर्षत्सु सत्सु, केषुचिद्देवेषु विभोः श्रीशान्तिनाथस्य उपर्युपरि च्छत्राणामातपत्राणामुच्चयं राशिं बिभ्राणेषु धारयत्सु सत्सु च केषुचिदेवेषु परतः पश्चात् , निःशेषाणां सकलानां दोषाणां पापादीनां च्छिदे नाशाय शेषाः निर्माल्यरूपाः विभोरुपरि क्षिप्ताः पुष्पादय आच्छिनत्सु हठादलाच्च परस्परं गृह्णत्सु सत्सु च // 82 //
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy