SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ 326 श्रीशान्तिनाथमहाकव्यम् एकोनविंशः सर्गः / संबोध्यैवाभियोग्यतमपि विबुधैर्देवदारूणि देवो घानादानाय्य वृत्तां स्म रचयति चितां माग्दिशि श्रीजिनस्य // 77 // / इत्थमुक्तप्रकारेण तं नाथं स्तुवन् स्वयं विलपन्नपि शक्रः, दुःखवाधिः दुःखमेव जलं तद् विलवाद्वार्षिः सागरः तस्मिन् मज्जन्तं ब्रुडन्तं स्वमात्मानं शं शान्तिमालम्ब्य मनसि धारयित्वा, समालम्ब्येति पाठस्तु निराकाङ्क्षत्वाद्धेयः विधृताः स्वामिवियोगेन धृतिरहिताः कृताः ये निजाऽऽध्याः स्वतुल्यनामानस्तानन्यान्, संक्रन्दनान् संक्रन्दन्तीत्येवं शोलान् इन्द्रांश्च सम्बोध्य शांति बोधनद्वारा प्रापय्य, एवेति चार्थे / आभियोग्यः आभिविबुधैर्देवैः कृत्वा द्रुतं देवोधानान्नन्दनाख्याद् देवदारूणि दिव्येन्धनान्यानाय्य; श्रीजिनस्य शांतिजिनस्य शरीरस्य प्राग्दिशि पूर्वदिशायां वृत्तां वर्तुलाकारां चितां रचयति निर्मापयति स्म // 77 / / अथ यथायोग्यं चितान्तरविधानमप्याह अपाच्यामिति अपाच्यामिक्ष्वाकन्वयभवमुनीनां विरचिता, चिता गीर्वाणैस्तैझंगिति चतुरस्राऽथ चतुरैः / परेषां वारुण्यां ककुभि च महानन्दलयिनां प्रभूणामादेशाद् विदधति न किं किङ्करजनाः ? // 78 // चतुरैः दक्षैः गीर्वाणैर्देवैः अथ जिनेश्वरचितानिर्माणानन्तरम्, अपाच्या दक्षिणस्यां दिशि झगिति द्रुतमेव, इक्ष्वाकन्वयभवानामिक्ष्वाकुकुलोद्भवानों मुनीनां चतुरस्रा चतुष्कोणा चिता विरचिता निर्मिता; वारुण्यां वरुणदेवताकायां ककुभि दिशि पश्चिमदिशि इत्यर्थः / महानन्दलयिनां शाश्वतानन्दलीनानां परेषामन्यवंशोद्भवानां मुनीनां, चिता विरचितेत्यनुषश्यते, ननु ते किमित्येवं कृतवन्त इति चेत्तत्राऽऽह-प्रभूणामिति-प्रभूणां स्वामिनामादेशात् किङ्कर जनाः मृत्यवर्गाः किं न विदधति ? अपितु सर्व विदधतीत्यर्थः / तदेव हि कैङ्कयं यत् स्वाम्याज्ञाकरणमिति भावः // 78 // अथ शान्तिनाथदेहसंस्कारमाह-संस्नाप्येति संस्नाप्य क्षीरवाविमलतरजलैश्चन्दनैः संविलिप्य, वासोभिर्देवदुष्यैरमृतकरकरणोज्ज्वलैः संविभूष्य / देवैरभ्यर्च्य पुष्पैः स्वयमपि मघवा स्वामिदेहं तथैव कृत्वाऽन्याङ्गानि चान्ये सपदि दिविषदो याप्ययानेष्यमांस्ते // 79 // मघवा इन्द्रः, देवैः कृत्वा स्वयमात्मनाऽपि च, स्वामिनः श्रीशान्तिनाथस्य देहं शरीरं, क्षीरवार्धेः क्षीरोदधेः विमलतरजलैः संस्नाप्य, चन्दनैः संविलिप्य अनुलिप्य, अमृतं सुधा जलं वा करेषु किरणेषु यस्य सोऽमृतकरश्चन्द्रस्तस्य करा मरीचय इव प्रोज्ज्वलानि तैः, देवदुष्यैः वासोभिः वस्त्रैश्च, संविभूष्य, पुष्पैरभ्यर्च्य, अन्ये च दिविषदो देवा अन्येषाम् भगवदतिरिक्तानां
SR No.004314
Book TitleShantinath Mahakavyam Part 03
Original Sutra AuthorN/A
AuthorVijaydarshansuri
PublisherNemidarshan Gyanshala
Publication Year1968
Total Pages452
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy