________________ 325 vvvww आ० श्रीविजयदर्शनसूरीश्वरकृत-प्रबोधिनीयुतम् संसारान्तरे त्यमेव जीवनद इत्याह-पुत्रेति / पुत्राभावनरेन्द्रमानविगमव्याधिपभेदोदयपारिद्रयानलहेतिसंहतिशतैदह्यमानं विभो ? / सन्तोषामृतकूपवर्जितमिमं तृष्णासमुल्लासकं , कस्त्वां जीवनदं विना शमयिता संसारकांतारकम् // 7 // विभो ! प्रभो ! पुत्राभावः नरेन्द्रेण मानस्य विगमः नरेन्द्रकृतमानमर्दनम् व्याधीनां रोगाणां प्रभेदानां प्रकृष्टभेदानामुदय आविर्भावः दुःसाध्यव्याधिसमागमः, दारिद्रयञ्चेत्येतानि अनलस्याग्नेहेंतीनां ज्वालानां संहतिः परम्पराः तासां शतैः "हेतिः कीलाशिखाज्वालाऽचिरि"तिहैमः दंदह्यमानम् पुनः पुनरतिशयेन च दहयमानम् सन्तोषो यथालाभतुष्टिरेवाऽमृतकूपं जलकूपं सुधाकूपं च तेन वर्जितं रहितम् उपलक्षणत्वात्तृष्णानिराससाधनशन्यमित्यर्थः / तृष्णायाः कामादिरूपायाः पिपासारूपायाश्च समुल्लासकं वर्धकमिमं संसार एव कान्तारं तत्संसारकान्तारकम्, जीवनं सवृत्ति भावप्राणधारणश्च जलं च ददाति इति स तादृशं त्वां शांतिनाथं विना कः शमयिता शमप्रदः ! ; न कोऽपीत्यर्थः / यथा दवाग्निग्रस्तं जलाधारादिरहितं तापतृषावर्धकं कान्तारं जलद एव शमयिता, तथा दुःखपीड़ितं कामादिवर्धकं सन्तोषशून्यं संसारं त्वां बिना न कोऽपि शमयिता छेदकः इति भावः “पीयूषममृतं सुधा" “पयः कीलालममृतं जीवनं भुवनं वनम्" "वृत्तिर्वर्तनजोवने” इति चाऽमरः / अत्र परम्परितरूपकाऽनुप्राणितः श्लेषोऽलङ्कारः // 75 // प्रभुं विना संसारस्याऽशोभनत्वमाह-रात्रिरिति रात्रिश्चन्द्रमसं विनोदवसितं दीपं विना भास्वरं, कासारः कमलं विना ननु दिनं प्रद्योतनं तं विना / भूपालोऽपि नयं विना जिनपते ! दानं विवेकं विना, यद्वद नैव विभाति देव ! भुवनं तबद् भवन्तं विना // 76 // जिनपते ! देव ! यद्वत् यथा, रात्रिश्चन्द्रमसं विना, उदवसितं गृहम् "गृहं गेहोदवसिते" इत्यमरः / भास्वरं प्रकाशशीलं दीपं विना, कासारः तडागः कमलं विना ननु निश्चयेन दिनं दिवसं प्रद्योतनं सूर्य तं विना, भूपोलोऽपि नृपश्च, नयं सामादिनीति विना, दानं विवेक पात्राऽपात्रविचारं विना, नैव विभाति शोभते इति सम्बध्यते / रात्र्यादेश्चन्द्रमसादय इव भुवनस्य भवान् भूषण इत्यर्थः / मालोपमाऽलङ्कारः // 6 // अथेन्द्रेण सशोकचितानिर्मापणमाह-इत्थमिति - इत्थं नाथं स्तुवंस्तं स्वयमपि विलपन् स्वं समालम्ब्य शक्रो, मज्जन्तं दुःखवा! विधृतकृतनिजाख्यांश्च संक्रन्दनांस्तान् /